मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८३

3
अवन्तीखण्डः · रेवाखण्डः · 83

हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज तीर्थं परमशोभनम् ।

ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् ।

हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम्

॥१॥

युधिष्ठिर उवाच

हनूमन्तेश्वरं नाम कथं जातं वदस्व मे ।

ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम्

॥२॥

श्रीमार्कण्डेय उवाच

साधु साधु महाबाहो सोमवंशविभूषण ।

गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया

॥३॥

तव स्नेहात्प्रवक्ष्यामि पीडितो वार्द्धकेन तु ।

पूर्वं जातं महद्युद्धं रामरावणयोरपि

॥४॥

पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः ।

रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः

॥५॥

त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च ।

गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता

॥६॥

वारितः कुम्भकर्णेन सीतां मोचय मोचय ।

विभीषणेन वै पापो मन्दोदर्या पुनःपुनः

॥७॥

त्वं जितः कार्तवीर्येण रैणुकेयेन सोऽपि च ।

स रामो रामभद्रेण तस्य संख्ये कथं जयः

॥८॥

रावण उवाच

वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः ।

देवासुरसमूहैश्च न जितोऽहं कदाचन

॥९॥

श्रीमार्कण्डेय उवाच

सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च ।

एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः

॥१०॥

रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः ।

वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च

॥११॥

रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः ।

आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु

॥१२॥

एवं रामायणे वृत्ते सीतामोक्षे कृते सति ।

अयोध्यां तु गते रामे हनुमान्स महाकपिः

॥१३॥

कैलासाख्यं गतः शैलं प्रणामाय महेशितुः ।

तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः

॥१४॥

ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि ।

भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे

॥१५॥

हनुमानुवाच

नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् ।

पापोऽहं प्लवगो यस्मात्संजातः कारणान्तरात्

॥१६॥

नन्द्युवाच

रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता ।

श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद्व्रजेत्

॥१७॥

त्रिंशज्जन्मार्जितं पापं नश्येद्रेवावगाहनात् ।

तस्मात्त्वं नर्मदातीरं गत्वा चर तपो महत्

॥१८॥

गन्धर्वाहसुतोऽप्येवं नन्दिनोक्तं निशम्य च ।

प्रयातो नर्मदातीरमौर्व्यादक्षिणसङ्गमम्

॥१९॥

दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् ।

जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम्

॥२०॥

भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् ।

उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम्

॥२१॥

वत्सरान् सुबहून् यावदुपासांचक्र ईश्वरम् ।

तावत्तुष्टो महादेव आजगाम सहोमया

॥२२॥

उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।

साधु साध्वित्युवाचेशः कष्टं वत्स त्वया कृतम्

॥२३॥

न च पूर्वं त्वया पापं कृतं रावणसंक्षये ।

स्वामिकार्यरतस्त्वं हि सिद्धोऽसि मम दर्शनात्

॥२४॥

हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् ।

साष्टाङ्गं प्रणतोऽवोचज्जय शम्भो नमोऽस्तु ते ।

जयान्धकविनाशाय जय गङ्गाशिरोधर

॥२५॥

एवं स्तुतो महादेवो वरदो वाक्यमब्रवीत् ।

वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव

॥२६॥

श्रीहनुमानुवाच

ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर ।

न पापोऽहं भवेदेव युष्मत्सम्भाषणे क्षणात्

॥२७॥

ईश्वर उवाच

नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः ।

मन्मूर्तिदर्शनात्पुत्र निष्पापोऽसि न संशयः

॥२८॥

अन्यं च ते प्रयच्छामि वरं वानरपुंगव ।

उपकाराय लोकानां नामानि तव मारुते

॥२९॥

हनूमानं जनिसुतो वायुपुत्रो महाबलः ।

रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षोऽमितविक्रमः

॥३०॥

उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा ।

लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः

॥३१॥

इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः ।

हनूमानीश्वरं तत्र स्थापयामास भक्तितः

॥३२॥

आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः ।

ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् ।

अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम्

॥३३॥

श्रीमार्कण्डेय उवाच

हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु ।

यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन

॥३४॥

सुपर्वा नाम भूपालो बभूव वसुधातले ।

तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा

॥३५॥

स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः ।

शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः

॥३६॥

आसक्तोऽसौ सदा कालं पापधर्मैर्नरेश्वर ।

अटाट्यत धरां सर्वां पर्वतांश्च वनानि च

॥३७॥

वधार्थं मृगयूथानामागतो विन्ध्यपर्वतम् ।

तरुजातिसमाकीर्णे हस्तियूथसमाचिते

॥३८॥

सिंहचित्रकशोभाढ्ये मृगवाराहसंकुले ।

क्रीडित्वा स वने राजा नर्मदामानतः क्वचित्

॥३९॥

हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके ।

चिञ्चिणीवनशोभाढ्ये कदम्बतरुसंकुले

॥४०॥

नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा ।

पाटलैर्बदरैर्युक्तैः शमीतिन्दुकशोभितम्

॥४१॥

मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् ।

पारावतकसङ्घानां समन्तात्स्वरशोभितम्

॥४२॥

शरत्कालेऽरमद्राजा बहुले चाश्विनस्य सः ।

वनमध्यं गतोऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम्

॥४३॥

पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम्

॥४४॥

शतबाहुरुवाच

एकाकी त्वं वने कस्माद्भ्रमसे पुस्तिकाकरः ।

इतस्ततोऽपि सम्पश्यन् कथयस्व द्विजोत्तम

॥४५॥

ब्राह्मण उवाच

कान्यकुब्जात्समायातः प्रेषितो राजकन्यया ।

अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले

॥४६॥

राजोवाच

अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज ।

क्रियते केन कार्येण साश्चर्यं कथ्यतां मम

॥४७॥

सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च ।

कृताञ्जलिपुटो भूत्वा ब्राह्मणाय नरेश्वर ।

समस्तं कथयामास वृत्तान्तं स्वं पुरातनम्

॥४८॥

ब्राह्मण उवाच

शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् ।

अपुत्रोऽसौ महीपालः कन्या जाता मनोरथैः

॥४९॥

जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः ।

पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता

॥५०॥

अनित्ये पुत्रि संसारे कन्यादानं ददाम्यहम् ।

श्वःकृत्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।

न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम्

॥५१॥

कन्योवाच

इच्छेयं यत्र काले हि तत्र देया त्वया पितुः ।

पुत्रीवाक्यादसौ राजा विस्मितो वाक्यमब्रवीत्

॥५२॥

शिखण्ड्युवाच

कथ्यतां मे महाभागे साश्चर्यं भाषितं त्वया ।

पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम्

॥५३॥

कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप ।

कलापिनी ह्यहं तात युता भर्त्रावसं तदा

॥५४॥

रेवौर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे ।

हनूमन्तवने पुण्ये चिक्रीडाहं यदृच्छया

॥५५॥

भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे ।

आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम्

॥५६॥

भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः ।

पाशबन्धं समादाय बद्धाहं स्वामिना सह

॥५७॥

ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् ।

हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः

॥५८॥

परिभर्ज्यावयोर्मांसं भक्षयित्वा यथेष्टतः ।

सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम्

॥५९॥

प्रभाते मांसशेषं च जम्बुकैर्गृध्रघातिभिः ।

मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम्

॥६०॥

गृहीतं घातिनैकेन चाकाशात्पतितं तदा ।

तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः

॥६१॥

दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।

विहगानां समस्तानां धावतां चैव पश्यताम्

॥६२॥

पतितं नर्मदातोये हनूमन्तेश्वरे नृप ।

मदीयमस्थिखण्डं च पतितं नर्मदाजले

॥६३॥

तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव ।

भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना

॥६४॥

जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले ।

तस्माद्विवाहं नेच्छामि मम भर्ता नृपोत्तम

॥६५॥

विषमे वर्ततेऽद्यापि शकुन्तमृगजातिषु ।

तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति

॥६६॥

तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् ।

एतत्ते सर्वमाख्यातं कारणं नृपसत्तम

॥६७॥

मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु ।

यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे

॥६८॥

तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् ।

शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते

॥६९॥

दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे ।

प्रेषणं मे प्रतिज्ञातमलक्ष्म्या पीडितेन तु

॥७०॥

कन्योवाच

गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् ।

आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः

॥७१॥

अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः ।

करंजः कटहश्चैव सन्निधाने वटस्य च

॥७२॥

न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि ।

समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम

॥७३॥

आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ ।

स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम्

॥७४॥

क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः ।

इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस्तस्य जायताम्

॥७५॥

क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् ।

एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति

॥७६॥

कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् ।

आगतोऽहं नृपश्रेष्ठ तीर्थेऽत्र दुरितापहे

॥७७॥

सोऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर ।

पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिःऽशु साधु साध्विति पाण्डव ।

विमानं च ततो दिव्यमागतं बर्हिणस्तदा

॥७८॥

दिव्यरूपधरो भूत्वा गतो नाके कलापवान् ।

एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप

॥७९॥

चकारानशनं विप्रः शतबाहुश्च भूपतिः ।

शोषयामासतुस्तौ स्वमीश्वराराधने रतौ

॥८०॥

ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ ।

मासार्धेन मृतो राजा शतबाहुर्महामनाः

॥८१॥

किङ्कणीजालशोभाढ्यं विमानं तत्र चागतम् ।

साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु

॥८२॥

शतबाहुरुवाच

नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः ।

उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः

॥८३॥

अप्सरस ऊचुः

लोभावृतो ह्ययं विप्रो लोभात्पापस्य संग्रहः ।

हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः

॥८४॥

ते यान्ति शांकरे लोके सर्वपापक्षयंकरे ।

नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर

॥८५॥

गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते ।

शतबाहुस्ततो विप्रमुवाच विनयान्वितः

॥८६॥

त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम ।

इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः

॥८७॥

दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः ।

बर्ही च काशीराजस्य पुत्रस्तीर्थप्रभावतः

॥८८॥

आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् ।

सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च ।

स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम्

॥८९॥

श्रीमार्कण्डेय उवाच

एतद्वृत्तान्तमभवत्तस्मिंस्तीर्थे नृपोत्तम ।

एतस्मात्कारणान्मेध्यं तीर्थमेतत्सदा नृप

॥९०॥

अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर ।

विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम्

॥९१॥

स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ।

दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः

॥९२॥

श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् ।

ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत्

॥९३॥

मुचकुन्देन कदेन जातीकाशकुशोद्भवैः ।

उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः

॥९४॥

अर्चयेत्परया भक्त्या हनूमन्तेश्वरं शिवम् ।

घृतेन दापयेद्दीपं तैलेन तदभावतः

॥९५॥

श्राद्धं च कारयेत्तत्र ब्राह्मणैर्वेदपारगैः ।

सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः

॥९६॥

तर्पयेद्ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः ।

नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद्द्विजान्

॥९७॥

पतितान् वर्जयेद्विप्रान् वृषली यस्य गेहिनी ।

स्ववृषं चापरित्यज्य वृषैरन्यैर्वृषायते

॥९८॥

वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् ।

ब्रह्महत्या सुरापानं गुरुदारनिषेवणम्

॥९९॥

सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा ।

नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत्

॥१००॥

श्रीमार्कण्डेय उवाच

वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया ।

सर्वपातकसंयुक्तो दद्याद्दानं द्विजन्मने

॥१०१॥

गोदानं च प्रकर्तव्यमस्मिंस्तीर्थे विशेषतः ।

गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम्

॥१०२॥

सर्वदेवमया गावः सर्वे देवास्तदात्मकाः ।

शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः

॥१०३॥

उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः ।

चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती

॥१०४॥

मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर ।

हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान्

॥१०५॥

ऋषयो रोमकूपेषु ह्यसंख्यातास्तपस्विनः ।

दण्डहस्तो महाकायः कृष्णो महिषवाहनः

॥१०६॥

यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः ।

चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च

॥१०७॥

विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी ।

प्रस्रावे संस्थिता यस्मात्तस्माद्वन्द्या सदा बुधैः

॥१०८॥

लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला ।

गोमयालेपनं तस्मात्कर्तव्यं पाण्डुनन्दन

॥१०९॥

गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः ।

पृथिव्यां सागरान्तायां यानि तीर्थानि भारत ।

तानि सर्वाणि जानीयाद्गौर्गव्यं तेन पावनम्

॥११०॥

युधिष्ठिर उवाच

सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता ।

एतत्कथय मे तात कस्माद्गोषु समाश्रिताः

॥१११॥

श्रीमार्कण्डेय उवाच

सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः ।

देवास्तदुभयात्तस्मात्कल्पिता विविधा जनैः

॥११२॥

श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन ।

सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता

॥११३॥

कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता ।

हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत्

॥११४॥

नियमस्थेन सा देया स्वर्गमानन्त्यमिच्छता ।

असमर्थाय ये दद्युर्विष्णुलोके प्रयान्ति ते

॥११५॥

असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे ।

कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान्

॥११६॥

सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप ।

शृण्वन्विमुच्यते पापाद्वर्णसंकरसंभवात्

॥११७॥

दूरस्थश्चिन्तयन् पश्यन्मुच्यते नात्र संशयः

॥११८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥