अग्नितीर्थमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् ।
तत्र स्नात्वा तु पक्षादौ मुच्यते सर्वकिल्बिषैः
॥१॥तत्र तीर्थे तु यः कन्यां दद्यात्स्वयमलंकृताम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरोत्तम
॥२॥अग्निष्टोमातिरात्राभ्यां शतं शतगुणीकृतम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या ह्यलंकृताम्
॥३॥तस्याः पुत्रप्रपौत्राणां या भवेद्रोमसंगतिः ।
स याति तेन मानेन शिवलोके परां गतिम्
॥४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥