मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२२

3
अवन्तीखण्डः · रेवाखण्डः · 222

तिलादेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् ।

तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान्

॥१॥

पितृमातृपरित्यागी भ्रातुर्भार्याभिलाषकृत् ।

पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह

॥२॥

एवं दोषसमाविष्टो यत्र यत्रापि गच्छति ।

तत्र तत्रापि धिक्कारं लभते सत्सु भारत ।

न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि

॥३॥

इति लज्जान्वितो विप्रः काले न महता नृप ।

चिन्तामवाप महतीमगतिज्ञो हि पावने

॥४॥

चकार सर्वतीर्थानि रेवां चाप्यवगाहयत्

॥५॥

अणिवापान्तमासाद्य दक्षिणे नर्मदातटे ।

तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान्

॥६॥

तिलैरेकाशनं कुर्वंस्तथैवैकान्तराशनम् ।

त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा

॥७॥

कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि ।

तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात्

॥८॥

कालेन गच्छता तस्य प्रसन्नोऽभवदीश्वरः ।

प्रादादिहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम्

॥९॥

तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ ।

तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः

॥१०॥

तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् ।

तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च

॥११॥

उपवासपरः पार्थ तथैव हरिवासरे ।

तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी

॥१२॥

तिलदाता च भोक्ता च नानापापैः प्रमुच्यते ।

तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः ।

रुद्रलोकमवाप्नोति पुनात्या सप्तमं कुलम्

॥१३॥

तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम ।

विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः

॥१४॥

स्वर्गलोकस्थिताः श्राद्धैर्ब्राह्मणानां च भोजनैः ।

अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः

॥१५॥

पितुः कुलं मातृकुलं तथा भार्याकुलं नृप ।

कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः

॥१६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमोऽध्यायः ॥