मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २९

3
अवन्तीखण्डः · रेवाखण्डः · 29

माहात्म्यं श्रोतुमिच्छामि तस्या मार्कण्ड तत्त्वतः

युधिष्ठिर उवाच

कावेरीति च विख्याता त्रिषु लोकेषु सत्तम ।

माहात्म्यं श्रोतुमिच्छामि तस्या मार्कण्ड तत्त्वतः

॥१॥

कीदृशं दर्शनं तस्याः फलं स्पर्शेऽथवा विभो ।

स्नाने जाप्येऽथवा दान उपवासे तथा मुने

॥२॥

कथयस्व महाभाग कावेरीसङ्गमे फलम् ।

धर्मः श्रुतोऽथ दृष्टो वा कथितो वा कृतोऽपि वा

॥३॥

अनुमोदितो वा विप्रेन्द्र पुनातीति श्रुतं मया ।

यथा धर्मप्रसङ्गे तु मुने धर्मोऽपि जायते

॥४॥

स्वर्गश्च नरकश्चैव इत्येवं वैदिकी श्रुतिः

॥५॥

श्रीमार्कण्डेय उवाच

साधु साधु महाभाग यत्पृष्टोऽहं त्वयाधुना ।

शृणुष्वैकमना भूत्वा कावेरीफलमुत्तमम्

॥६॥

अस्ति यक्षो महासत्त्वः कुबेरोनाम विश्रुतः ।

सोऽपि तीर्थप्रभावेन राजन्यक्षाधिपोऽभवत्

॥७॥

तच्छृणुष्व विधानेन भक्त्या परमया नृप ।

सिद्धिं प्राप्तो महाभाग कावेरीसङ्गमेन तु

॥८॥

कावेर्या नर्मदायास्तु सङ्गमे लोकविश्रुते ।

तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः

॥९॥

विधिवन्नियमं कृत्वा शास्त्रयुक्त्या नरोत्तम ।

आराधयन्महादेवमेकचित्तः सनातनम्

॥१०॥

एकाहारो वसन्मासं तथा षष्ठाह्नकालिकः ।

पक्षोपवासी न्यवसत्कंचित्कालं नृपोत्तम

॥११॥

मूलशाकफलैश्चान्यं कालं नयति बुद्धिमान् ।

किंचित्कालं वसंस्तत्र तीर्थे शैवालभोजनः

॥१२॥

पराकेणानयत्कालं कृच्छ्रेणापि च मानद ।

चान्द्रायणेन चाप्यन्यमन्यं वाय्वम्बुभोजनः

॥१३॥

एवं तत्र नरश्रेष्ठ कामरागविवर्जितः ।

स्थितो वर्षशतं साग्रं कर्षयन्स्वं तथा वपुः

॥१४॥

ततो वर्षशतस्यान्ते देवदेवो महेश्वरः ।

तुष्टस्तु परया भक्त्या तमुवाच हसन्निव

॥१५॥

भोभो यक्ष महासत्त्व वरं वरय सुव्रत ।

परितुष्टोऽस्मि ते भक्त्या तव दास्ये यथेप्सितम्

॥१६॥

यक्ष उवाच

यदि तुष्टोऽसि देवेश उमया सह शङ्कर ।

अद्यप्रभृति सर्वेषां यक्षाणामधिपो भवे

॥१७॥

अक्षयश्चाव्ययश्चैव तव भक्तिपुरःसरः ।

धर्मे मतिं च मे नित्यं ददस्व परमेश्वर

॥१८॥

ईश्वर उवाच

यत्त्वया प्रार्थितं सर्वं फलं धर्मस्य तत्तथा ।

इत्येवमुक्त्वा तं तत्र जगामादर्शनं हरः

॥१९॥

सोऽपि स्नात्वा विधानेन संतर्प्य पितृदेवताः ।

आमन्त्रयित्वा तत्तीर्थं कृतार्थश्च गृहं ययौ

॥२०॥

पूजितस्तत्र यक्षैस्तु सोऽभिषिक्तो विधानतः ।

चकार विपुलं तत्र राज्यमीप्सितमुत्तमम्

॥२१॥

तत्र चान्ये सुराः सिद्धा यक्षगन्धर्वकिंनराः ।

गणाश्चाप्सरसां तत्र ऋषयश्च तथानघ

॥२२॥

कावेरीसङ्गमं तेन सर्वपापहरं विदुः ।

स्वर्गाणामपि सर्वेषां द्वारमेतद्युधिष्ठिर

॥२३॥

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।

कावेरीसङ्गमे स्नात्वा यैर्दत्तं हि तिलोदकम्

॥२४॥

दश पूर्वे परे तात मातृतः पितृतस्तथा ।

पितरः पितामहास्तेन उद्धृता नरकार्णवात्

॥२५॥

तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः ।

अर्चयेदीश्वरं देवं यदीच्छेच्छाश्वतीं गतिम्

॥२६॥

कावेरीसङ्गमे राजन्स्नानदानार्चनं नरैः ।

कृतं भक्त्या नरश्रेष्ठ अश्वमेधाधिकं फलम्

॥२७॥

होमेन चाक्षयः स्वर्गो जपादायुर्विवर्धते ।

ध्यानतो नित्यमायाति पदं शिवकलात्मकम्

॥२८॥

अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नरेश्वर ।

अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम्

॥२९॥

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

तस्य पुण्यफलं यद्वै तच्छृणुष्व नरोत्तम

॥३०॥

गन्धर्वाप्सरःसंकीर्णे विमाने सूर्यसन्निभे ।

वीज्यमानो वरस्त्रीभिर्दैवतैः सह मोदते

॥३१॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।

क्रीडते रुद्रलोकस्थस्तदन्ते भुवि चागतः

॥३२॥

भोगवान्दानशीलश्च जायते पृथिवीपतिः ।

आधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

॥३३॥

एवं गुणगणाकीर्णा कावेरी सा सरिन्नृप ।

त्रिषु लोकेषु विख्याता नर्मदासङ्गमे सदा

॥३४॥

जितवाक्कायचित्ताश्च ध्येयध्यानरतास्तथा ।

कावेरीसङ्गमे तात तेऽपि मोक्षमवाप्नुयुः

॥३५॥

शृणु तेऽन्यत्प्रवक्ष्यामि आश्चर्यं नृपसत्तम ।

त्रिषु लोकेषु का त्वन्या दृश्यते सरिता समा

॥३६॥

लब्धं यैर्नर्मदातोयं ये च कुर्युः प्रदक्षिणम् ।

ये पिबन्ति जलं तत्र ते पुण्या नात्र संशयः

॥३७॥

न तेषां सन्ततिच्छेदो दश जन्मानि पञ्च च ।

तेषां पापं विलीयेत हिमं सूर्योदये यथा

॥३८॥

गङ्गायमुनसङ्गे वै यत्फलं लभते नरः ।

तत्फलं लभते मर्त्यः कावेरीस्नानमाचरन्

॥३९॥

भौमे तु भूतजायोगे व्यतीपाते च संक्रमे ।

राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम्

॥४०॥

अशीतिश्च यवाः प्रोक्ता गङ्गायामुनसङ्गमे ।

कावेरीनर्मदायोगे तदेवाष्टगुणं स्मृतम्

॥४१॥

गङ्गा षष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते ।

तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः

॥४२॥

अमरेश्वरे तु सरितां ये योगाः परिकीर्तिताः ।

ते त्वशीतिसहस्रैस्तु क्षेत्रपालैस्तु रक्षिताः

॥४३॥

तथामरेश्वरे याम्ये लिङ्गं वै चपलेश्वरम् ।

द्वितीयं चण्डहस्ताख्यं द्वे लिङ्गे तीर्थरक्षके

॥४४॥

शिवेन स्थापिते पूर्वं कावेर्याद्यभिरक्षके ।

लक्षेण रक्षिता देवी नर्मदा बहुकल्पगा

॥४५॥

धनुषां षष्ट्यभियुतैः पुरुषैरीशयोजितैः ।

ओं कारशतसाहस्रैः पर्वतश्चाभिरक्षितः

॥४६॥

अन्यदेशकृतं पापमस्मिन् क्षेत्रे विनश्यति ।

अस्मिंस्तीर्थे कृतं पापं वज्रलेपो भविष्यति

॥४७॥

एषा ते कथिता तात कावेरी सरितां वरा ।

रुद्रदेहसमुत्पन्ना तेन पुण्या सरिद्वरा

॥४८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥