काशीराजमोक्षगमनम्
उत्तानपाद उवाच
माहात्म्यं तीर्थजं दृष्ट्वा चित्रसेनो नरेश्वरः ।
किं चकार क्व वा वासं किमाहारो बभूव ह
॥१॥ईश्वर उवाच
भृगुतुङ्गं समारुह्य ऐशानीं दिशमाश्रितः ।
तपश्चचार विपुलं कुण्डे तत्र नृपोत्तमः
॥२॥सर्वान् देवान् हृदि ध्यात्वा ब्रह्मविष्णुमहेश्वरान् ।
विचिक्षेप यदात्मानं प्रत्यक्षौ रुद्रकेशवौ ।
करे गृहीत्वा राजानं रुद्रो वचनमब्रवीत्
॥३॥ईश्वर उवाच
प्राणत्यागं महाराज मा काले त्वं कृथा वृथा ।
अद्याप्यसि युवा त्वं वै न युक्तं मरणं तव
॥४॥स्वस्थानं गच्छ शीघ्रं त्वं भुक्त्वा भोगान्यथेप्सितान् ।
कुरु निष्कण्टकं राज्यं नाके शक्र इवापरः
॥५॥चित्रसेन उवाच
न राज्यं कामये देव न पुत्रान्न च बान्धवान् ।
न भार्यां न च कोशं च न गजान्न तुरंगमान्
॥६॥मुञ्च मुञ्च महादेव मा विघ्नः क्रियतां मम ।
स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर
॥७॥ईश्वर उवाच
यस्याग्रतो भवेद्ब्रह्मा विष्णुः शम्भुस्तथैव च ।
स्वर्गेण तस्य किं कार्यं स गतः किं करिष्यति
॥८॥तुष्टा वयं त्रयो देवा वृणीष्व वरमुत्तमम् ।
यथेप्सितं महाराज सत्यमेतदसंशयम्
॥९॥चित्रसेन उवाच
यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
अद्यप्रभृति युष्माभिः स्थातव्यमिह सर्वदा
॥१०॥गयाशिरो यथा पुण्यं कृतं युष्माभिरेव च ।
तथैवेदं प्रकर्तव्यं शूलभेदं च पावनम्
॥११॥यत्रयत्र स्थिता यूयं तत्रतत्र वसाम्यहम् ।
गणानां चैव सर्वेषामाधिपत्यमथास्तु मे
॥१२॥ईश्वर उवाच
अद्यप्रभृति तिष्ठामः शूलभेदे नरेश्वर ।
त्रिकालां हि त्रयो देवाः कलांशेन वसामहे
॥१३॥नन्दिसंज्ञो गणाधीशो भविष्यति भवान्ध्रुवम् ।
मत्समीपे तु भवत आदौ पूजा भविष्यति
॥१४॥प्रक्षिप्य तानि चास्थीनि यत्र दीर्घतपा ययौ ।
सकुटुम्बो विमानस्थः स्वर्गतस्त्वं तथा कुरु
॥१५॥एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव ।
कुण्डमूर्धनि याम्यायां त्रयो देवास्तदा स्थिताः
॥१६॥परस्परं वदन्त्येवं पुण्यतीर्थमिदं परम् ।
यथा हि गयाशिरः पुण्यं पूर्वमेव पठ्यते ।
तथा रेवातटे पुण्यं शूलभेदं न संशयः
॥१७॥ईश्वर उवाच
इदं तीर्थं तथा पुण्यं यथा पुण्यं गयाशिरः ।
सकृत्पिण्डोदकेनैव नरो निर्मलतां व्रजेत्
॥१८॥एकं गयाशिरो मुक्त्वा सर्वतीर्थानि भूपते ।
शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम्
॥१९॥कुण्डमुदीच्यां याम्यायां दशहस्तप्रमाणतः ।
रौद्रवारुणकाष्ठायां प्रमाणं चैकविंशति
॥२०॥एतत्प्रमाणं तत्तीर्थं पिण्डदानादिकर्मसु ।
नाधर्मनिरता दातुं लभन्ते दानमत्र हि
॥२१॥विष्णुस्तु पितृरूपेण ब्रह्मरूपी पितामहः ।
प्रपितामहो रुद्रोऽभूदेवं त्रिपुरुषाः स्थिताः
॥२२॥कदा पश्यति तीर्थं वै कदा नस्तारयिष्यति ।
इति प्रतीक्षां कुर्वन्ति पुत्राणां सततं नृप ।
शूलभेदे नरः स्नात्वा दृष्ट्वा शूलधरं सकृत्
॥२३॥नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ।
एकविंशतिं पितुः पक्षे मातुश्वैवेकविंशतिम्
॥२४॥भार्यापक्षे दशैवेह कुलान्येतानि तारयेत् ।
शूलभेदवने राजञ्छाकमूलफलैरपि
॥२५॥एकस्मिन्भोजिते विप्रे कोटीर्भवति भोजिता ।
पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः
॥२६॥कुलानि प्रेतभूतानि सर्वाण्यपि हि तारयेत् ।
द्विजदेवप्रसादेन पितॄणां च प्रसादतः
॥२७॥श्राद्धदो निवसेत्तत्र यत्र देवो महेश्वरः ।
स्युरात्मघातिनो ये च गोब्राह्मणहनाश्च ये
॥२८॥दंष्ट्रिभिर्जलपाते च विद्युत्पातेषु ये मृताः ।
न येषामग्निसंस्कारो नाशौचं नोदकक्रिया
॥२९॥तत्र तीर्थे तु यस्तेषां श्राद्धं कुर्वीत भक्तितः ।
मोक्षावाप्तिर्भवेत्तेषां युगमेकं न संशयः
॥३०॥अज्ञानाद्यत्कृतं पापं बालभावाच्च यत्कृतम् ।
तत्सर्वं नाशयेत्पापं स्नानमात्रेण भूपते
॥३१॥रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा पापोऽपि तत्तीर्थे स्नातो भवति निर्मलः
॥३२॥संन्यासं कुरुते योऽत्र तीर्थे विधिसमन्वितम् ।
ध्यायन्नित्यं महादेवं स गच्छेत्परमं पदम्
॥३३॥क्रीडित्वा स यथाकामं स्वेच्छया शिवमन्दिरे ।
वेदवेदाङ्गतत्त्वज्ञो जायतेऽसौ शुभे कुले
॥३४॥रूपवान्सुभगश्चैव सर्वव्याधिविवर्जितः ।
राजा वा राजपुत्रो वाचारसमन्वितः
॥३५॥एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् ।
यच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वकिल्बिषैः
॥३६॥य इदं श्रावयेन्नित्यमाख्यानं द्विजपुंगवान् ।
श्राद्धे देवकुले वापि पठेत्पर्वणि पर्वणि
॥३७॥गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह ।
पठतां शृण्वतां चैव नश्यते सर्वपातकम्
॥३८॥लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः ।
जातिस्मरत्वं लभते प्राप्नोत्यभिमतं फलम्
॥३९॥रुद्रलोके वसेत्तावद्यावदक्षरमन्वितम्
॥४०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥