मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५६

3
अवन्तीखण्डः · रेवाखण्डः · 56

व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनम्

उत्तानपाद उवाच

अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता ।

रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता

॥१॥

पुण्या देवाशिला नाम तस्या माहात्म्यमुत्तमम् ।

एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर

॥२॥

ईश्वर उवाच

शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।

देवैः सर्वैर्महाभागा सर्वलोकहिताय वै

॥३॥

अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते ।

गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर

॥४॥

तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः ।

अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम्

॥५॥

जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले ।

भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि

॥६॥

तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् ।

ततो देवनदी जाता सा हिताय नृणां भुवि

॥७॥

वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः ।

पिबन्ति च जलं नित्यं न ते यान्ति यमालयम्

॥८॥

यत्र सा पतिता कुण्डे शूलभेदे नराधिप ।

देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती

॥९॥

याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् ।

तत्र देवशिला पुण्या स्वयं देवेन निर्मिता

॥१०॥

तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ।

पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्

॥११॥

तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप ।

स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते

॥१२॥

उत्तानपाद उवाच

कानि दानानि दत्तानि शस्तानि धरणीतले ।

यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः

॥१३॥

देवशिलाया माहात्म्यं स्नानदानादिजं फलम् ।

व्रतोपवासनियमैर्यत्प्राप्यं तद्वदस्व मे

॥१४॥

ईश्वर उवाच

आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ।

वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप

॥१५॥

राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर्न च तस्कराः ।

न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा

॥१६॥

सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ।

एकासीद्दुहिता तस्य सुरूपा गिरिजा यथा

॥१७॥

इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च ।

कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि

॥१८॥

अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः ।

ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः

॥१९॥

विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ।

उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम्

॥२०॥

प्रिये दुःखमिदं जातं यावज्जीवं सुदुःसहम् ।

नैषा रक्षयितुं शक्या रूपयौवनगर्विता

॥२१॥

दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका ।

नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे ।

परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत्

॥२२॥

भानुमत्युवाच

न लज्जामि तवाग्रेऽहं जल्पन्ती तात कर्हिचित् ।

सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप

॥२३॥

अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् ।

स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे

॥२४॥

करिष्यामि व्रतान्याशु पुराणविहितानि च ।

आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम्

॥२५॥

ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे ।

भानुमत्या वचः श्रुत्वा राजा संहर्षितोऽभवत्

॥२६॥

तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् ।

विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे

॥२७॥

पुरुषान् सायुधांश्चापि ब्राह्मणान्सपुरोहितान् ।

दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान्

॥२८॥

ततः पितुर्मतेनैव गङ्गातीरं गता सती ।

अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप

॥२९॥

नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः ।

द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता

॥३०॥

त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् ।

प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी

॥३१॥

समाः पञ्च स्थिता तत्र ओङ्कारेऽमरकण्टके ।

उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा

॥३२॥

स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वमतन्द्रिता ।

वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे

॥३३॥

ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् ।

दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदमब्रवीत्

॥३४॥

माहात्म्यमस्य तीर्थस्य नाम चैवास्य कीदृशम् ।

कथयन्तु महाभागाः प्रसादः क्रियतां मम

॥३५॥

ऋषय ऊचुः

चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।

महेश्वरेण तुष्टेन देवदेवेन शूलिना

॥३६॥

अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

अनिवर्तिका गतिस्तस्य जायते नात्र संशयः

॥३७॥

द्वितीयेऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि ।

पूर्वोक्तेन विधानेन स्नानं कुर्याद्यथाविधि

॥३८॥

जन्मत्रयकृतैः पापैर्मुच्यते नात्र संशयः ।

जलेन तिलमात्रेण प्रदद्यादञ्जलित्रयम्

॥३९॥

तृप्यन्ति पितरस्तस्य द्वादशाब्दान्यसंशयम् ।

यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर्ब्राह्मणैर्नृप

॥४०॥

वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तमक्षयम् ।

अपरेऽह्णि ततो गच्छेत्पुण्यां देवशिलां शुभाम्

॥४१॥

वीक्ष्यते जाह्नवी पुण्या देवैरुत्पादिता पुरा ।

स्नात्वा तत्र जलं दद्यात्तिलमिश्रं नराधिप

॥४२॥

सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया ।

एकादश्यामुपोषित्वा पक्षयोरुभयोरपि

॥४३॥

क्षपाजागरणं कुर्यात्पठेत्पौराणिकीं कथाम् ।

विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः

॥४४॥

प्रभाते भोजयेद्विप्रान् दानं दद्यात्सशक्तितः ।

चतुर्थेऽह्नि ततो गच्छेद्यत्र प्राची सरस्वती

॥४५॥

ब्रह्मदेहाद्विनिष्क्रान्ता पावनार्थं शरीरिणाम् ।

तत्र स्नात्वा नरो भक्त्या तर्पयेत्पितृदेवताः

॥४६॥

श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद्द्विजान् ।

पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम्

॥४७॥

सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा ।

देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम्

॥४८॥

त्रिरात्रं कुरुते योऽत्र शुचिः स्नात्वा जितेन्द्रियः ।

पक्षं मासं च षण्मासमब्दमेकं कदाचन

॥४९॥

न तस्य सम्भवो मर्त्ये तस्य वासो भवेद्दिवि ।

नियमस्थो विमुच्येत त्रिजन्मजनितादघात्

॥५०॥

विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता ।

तिष्ठते साक्षयं कालं रुद्रलोके महीयते

॥५१॥

मुनीनां वचनं श्रुत्वा मुदा परमया ययौ ।

ततोऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता

॥५२॥

दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् ।

श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः

॥५३॥

न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् ।

मत्पितुश्च तथा मातुः कथयध्वमिदं वचः

॥५४॥

त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी ।

एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः

॥५५॥

एकान्तरोपवासस्था शनैर्मासोपवासिता ।

देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम्

॥५६॥

अहर्निशं दहेद्धूपं चन्दनं च सदीपकम् ।

पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् ।

द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता

॥५७॥

ईश्वर उवाच

अन्यद्देवशिलायास्तु माहात्म्यं शृणु भूपते ।

कथयामि महाबाहो सेतिहासं पुरातनम्

॥५८॥

कश्चिद्वनेचरो व्याधः शबरः सह भार्यया ।

दुर्भिक्षपीडितस्तत्र आमिषार्थं वनं गतः

॥५९॥

नापश्यत्पक्षिणस्तत्र न मृगान्न फलानि च ।

सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम्

॥६०॥

दृष्ट्वा सरोवरं तत्र शबरी वाक्यमब्रवीत् ।

कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये

॥६१॥

देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः ।

विक्रयो भविता तत्र धर्मशीलो जनो यतः

॥६२॥

भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः ।

उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः

॥६३॥

श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः ।

शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान्

॥६४॥

चैत्रमासे सिते पक्षे एकादश्यां नराधिप ।

तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः

॥६५॥

मण्डपं ददृशे तत्र कृतं देवशिलोपरि ।

वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम्

॥६६॥

ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः ।

सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः

॥६७॥

देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले ।

आगच्छद्भिर्नृपश्रेष्ठ मार्गस्तत्र न लभ्यते

॥६८॥

दृष्ट्वा जनपदं तत्र तां भार्यां शबरोऽब्रवीत् ।

गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम्

॥६९॥

पर्वाणि यानि श्रूयन्ते किंस्वित्सूर्येन्दुसम्प्लवः ।

अयनं किं भवेदद्य किं वाक्षयतृतीयका

॥७०॥

ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा ।

पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे

॥७१॥

तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे ।

किमयं स्नाति लोकोऽयं किं वा स्नानस्य कारणम्

॥७२॥

नार्युवाच

अद्य चैकादशी पुण्या सर्वपापक्षयंकरी ।

उपोषिता सकृद्येन नाकप्राप्तिं करोति सा

॥७३॥

तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै ।

कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम

॥७४॥

अद्य त्वेकादशी पुण्या बालवृद्धैरुपोषिता ।

मदनैकादशी नाम सर्वपापक्षयंकरी

॥७५॥

नियता श्रूयते तत्र राजपुत्री सुशोभना ।

व्रतस्था नियताहारा नाम्ना भानुमती सती

॥७६॥

नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता ।

दृश्यते सा वरारोहा ह्यवतीर्णा महीतले

॥७७॥

भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह ।

कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम्

॥७८॥

ममैषा वर्तते बुद्धिर्न भोक्तव्यं मया ध्रुवम् ।

न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित्

॥७९॥

शबर्युवाच

न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे ।

भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम्

॥८०॥

भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ।

अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः

॥८१॥

सर्वान् देवान्नमस्कृत्य गतो देवशिलां प्रति ।

तस्थौ स शङ्कमानोऽपि नमस्कृत्य जनार्दनम्

॥८२॥

यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् ।

तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत्तदा

॥८३॥

कुत्र पद्मद्वयं लब्धं कथ्यतामग्रतो मम ।

शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान्

॥८४॥

धान्येन वसुना वापि कमलानि समानय ।

भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति

॥८५॥

श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे

॥८६॥

शबर्युवाच

श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः ।

न लोभो न स्पृहा मेऽस्ति गत्वा राज्ञीं निवेदय

॥८७॥

तया च सत्वरं गत्वा यथावृत्तं निवेदितम् ।

शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः

॥८८॥

तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता ।

उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः

॥८९॥

शबर्युवाच

न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।

श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम्

॥९०॥

अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ

॥९१॥

राज्ञ्युवाच

विना मूल्यं न गृह्णामि कमलानि तवाधुना ।

धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम्

॥९२॥

दश विंशत्यथ त्रिंशच्चत्वारिंशदथापि वा ।

गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर

॥९३॥

वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् ।

तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः

॥९४॥

शबर्युवाच

नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ।

देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते

॥९५॥

राज्ञ्युवाच

न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ।

तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम्

॥९६॥

तपस्विनो महाभागा ये चारण्यनिवासिनः ।

गृहस्थद्वारि ते सर्वे याचन्तेऽन्नमतन्द्रिताः

॥९७॥

शबर्युवाच

निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् ।

सत्येन तपते सूर्यः सत्येन ज्वलतेऽनलः

॥९८॥

सत्येन तिष्ठत्युदधिर्वायुः सत्येन वाति हि ।

सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च

॥९९॥

सत्याधारमिदं सर्वं जगत्स्थावरजङ्गमम् ।

तस्मात्सर्वप्रयत्नेन सत्यं सत्येन पालयेत्

॥१००॥

देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते ।

गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः

॥१०१॥

श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् ।

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि ।

मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च

॥१०२॥

राज्ञ्युवाच

आरामोपहृतं पुष्पमारण्यं पुष्पमेव च ।

क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम्

॥१०३॥

उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च ।

मध्यमं फलमारामे त्वधमं क्रीतमेव च ।

प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः

॥१०४॥

पुरोहित उवाच

गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ।

उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित्

॥१०५॥

ईश्वर उवाच

श्रीफलानि सपद्मानि दत्तानि शबरेण तु ।

गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम्

॥१०६॥

क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् ।

शबरस्तु ततो भार्यामिदं वचनमब्रवीत्

॥१०७॥

दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ।

कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम्

॥१०८॥

चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् ।

ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम्

॥१०९॥

स्नाति वै शूलभेदे तु देवनद्यां तथापरे ।

सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदेऽपरे

॥११०॥

चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः ।

शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि

॥१११॥

श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा ।

तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः

॥११२॥

भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् ।

अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः

॥११३॥

हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा ।

पायसेन तु गव्येन कृतान्नेन विशेषतः

॥११४॥

भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि ।

पादुकोपानहौ छत्रं शय्यां गोवृषमेव च

॥११५॥

विविधानि च दानानि हेमरत्नधनानि च ।

चक्रतीर्थे महाराज कपिलां यः प्रयच्छति ।

पृथ्वी तेन भवेद्दत्ता सशैलवनकानना

॥११६॥

उत्तानपाद उवाच

यानि यानि च दत्तानि शस्तानि जगतीपतेः ।

तानि सर्वाणि देवेश कथयस्व प्रसादतः

॥११७॥

ईश्वर उवाच

तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।

भूमिदः स्वर्गमाप्नोति दीर्घमायुर्हिरण्यदः

॥११८॥

गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् ।

वासोदश्चन्द्रसालोक्यमर्कसायुज्यमश्वदः

॥११९॥

वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् ।

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः

॥१२०॥

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।

वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम्

॥१२१॥

सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।

येन येन हि भावेन यद्यद्दानं प्रयच्छति

॥१२२॥

तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् ।

दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च

॥१२३॥

उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर ।

पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः

॥१२४॥

श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् ।

पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः

॥१२५॥

शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् ।

संसारसागराद्भीतः सत्यं भद्रे वदामि ते

॥१२६॥

अनेकानि च पापानि कृतानि बहुशो मया ।

घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा

॥१२७॥

तेन पापेन दग्धोऽहं दारिद्र्यं न निवर्तते ।

तीर्थावगाहनं पूर्वं पापेन न कृतं मया

॥१२८॥

तेनाहं दुःखितो भद्रे दारिद्र्यमनिवर्तिकम् ।

मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि ।

नगशृङ्गं समारुह्य मोक्तुमिच्छाम्यहं तनुम्

॥१२९॥

शबर्युवाच

मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः ।

या गतिस्तव जीवेश सा ममापि भविष्यति

॥१३०॥

न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् ।

श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा

॥१३१॥

पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति ।

यत्तेऽभिवाञ्छितं किंचिद्विष्णवे कर्तुमर्हसि

॥१३२॥

भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः ।

गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि

॥१३३॥

सर्वदेवान्नमस्कृत्य भुक्तोऽपि च तया सह ।

चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम्

॥१३४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥