मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९१

3
अवन्तीखण्डः · रेवाखण्डः · 91

चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल तीर्थपरमपावनम् ।

चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः

॥१॥

आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ ।

नर्मदातीरमाश्रित्य चेरतुर्विपुलं तपः

॥२॥

ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये ।

तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह

॥३॥

साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे ।

वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम्

॥४॥

चण्डमुण्डावूचतुः

अजेयौ सर्वदेवानां भूयास्वावां समाहितौ ।

सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर

॥५॥

एवमस्त्विति तौ प्राह भास्करो वारितस्करः ।

इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः

॥६॥

स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये ।

गीर्वाणांश्च मनुष्यांश्च पित्ःंस्तत्रापि तर्पयेत्

॥७॥

स वसेद्भास्करे लोके विरिञ्चिदिवसं नृप ।

घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर ।

मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः

॥८॥

उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ ।

विजयी स सदा नूनमाधिव्याधिविवर्जितः

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमोऽध्यायः ॥