मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३४

3
अवन्तीखण्डः · रेवाखण्डः · 134

रामेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् ।

तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम्

॥१॥

तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् ।

महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥