मार्कण्डेय उवाच - एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः
मार्कण्डेय उवाच
एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः ।
क्रीडते ह्युमया सार्द्धं नारदस्तत्र चागतः
॥१॥प्रणम्य देवदेवेशमुमया सह शङ्करम् ।
व्यज्ञापयत्तदा देवं यद्वृत्तं त्रिपुरे तदा
॥२॥गतोऽहं स्वामिनिर्देशाद्यत्र तद्बाणमन्दिरम् ।
दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत्
॥३॥तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः ।
यथायोग्यं यथाकाममागतः क्षोभ्य तत्पुरम्
॥४॥नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् ।
चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि
॥५॥करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना ।
महावेगं महायामं रक्षितं तेजसा मम
॥६॥स च मे भक्तिनिरतो बाणो लोके च विश्रुतः ।
भारती च मया दत्ता ब्राह्मणानां विशेषतः
॥७॥एवं स सुचिरं कालं देवदेवो महेश्वरः ।
चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः
॥८॥ततोऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् ।
विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः
॥९॥फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् ।
सुपर्णं पुङ्खयोर्मध्ये जवे वायुं प्रकल्प्य च
॥१०॥रथं महीमयं कृत्वा धुरि तावश्विनावुभौ ।
अक्षे सुरेश्वरं देवमग्रकील्यां धनाधिपम्
॥११॥यमं तु दक्षिणे पार्श्वे वामे कालं सुदारुणम् ।
आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु
॥१२॥यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् ।
खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत्
॥१३॥कृत्वा प्रतोदमोंकारं मुखग्राह्यं महेश्वरः ।
धातारं चाग्रतः कृत्वा विधातारं च पृष्ठतः
॥१४॥मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च ।
महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा
॥१५॥गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु ।
युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः
॥१६॥सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ ।
गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने
॥१७॥सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः ।
रथं देवमयं कृत्वा देवदेवो महेश्वरः
॥१८॥संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
बद्धा परिकरं गाढं जटाजूटं नियम्य च
॥१९॥सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् ।
रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर
॥२०॥धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् ।
स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः
॥२१॥निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः ।
ध्यात्वा तं परमं मन्त्रमात्मानं च निरुध्य सः
॥२२॥मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया ।
यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु
॥२३॥ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च ।
त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत्
॥२४॥ततो लोका भयत्रस्तास्त्रिपुरे भरतोत्तम ।
सर्वासुरविनाशाय कालरूपा भयावहाः
॥२५॥अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास्तदा ।
निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु
॥२६॥निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव ।
देवायतनगा देवा रटन्ति प्रहसन्ति च ।
स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम्
॥२७॥रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे ।
पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम्
॥२८॥पश्यन्ति यानमारूढं रासभैश्च नृपोत्तम ।
संवर्तको महावायुर्युगान्तप्रतिमो महान्
॥२९॥गृहानुन्मूलयामास वृक्षजातीननेकशः ।
भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः
॥३०॥रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु ।
अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः
॥३१॥ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह ।
कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः
॥३२॥अवादितानि वाद्यन्ते वादित्राणि सहस्रशः ।
ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च
॥३३॥ज्वलति पादपास्तत्र पर्णानि च सभं ततः ।
सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम्
॥३४॥उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः ।
तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः
॥३५॥वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः ।
दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः
॥३६॥सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते ।
गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते
॥३७॥हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः ।
प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम्
॥३८॥पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः ।
पावको धूमसंपृक्तो दह्यमानः समन्ततः
॥३९॥नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति ।
देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च
॥४०॥प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः ।
ददाह लोकान्सर्वत्र हरकोपप्रकोपितः
॥४१॥दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् ।
सपुरं सगृहद्वारं सवाहनवनं नृप
॥४२॥केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे ।
अपरा नृत्यगीतेषु संसक्ता वारयोषितः
॥४३॥अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः ।
दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः
॥४४॥अथान्ये दानवास्तत्र दह्यन्तेऽग्निविमोहिताः ।
न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः ।
हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः
॥४५॥दह्यन्ते विविधास्तत्र वाप्यः कूपाश्च भारत ।
दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ।
अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः
॥४६॥गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः ।
दृश्यन्तेऽनलसंदग्धा विशीर्णा धरणीतले
॥४७॥नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः ।
निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् ।
काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम
॥४८॥क्रीडित्वा च सुविस्तीर्णशयनस्था वराङ्गना ।
काचित्सुप्ता विशालाक्षी हारावलिविभूषिता ।
धूमेनाकुलिता दीना न्यपतद्धव्यवाहने
॥४९॥काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा ।
पुत्रमालिङ्गते गाढं दह्यते त्रिपुरेऽग्निना
॥५०॥काचित्कनकवर्णाभा इन्द्रनीलविभूषिता ।
भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि
॥५१॥काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि ।
अग्निज्वालाहता गाढं कंठमालिङ्गते नृप
॥५२॥मेधवर्णा परा नारी चलत्कनकमेखला ।
श्वेतवस्त्रोत्तरीया तु पपात धरणीतले
॥५३॥काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता ।
शिरसा प्राञ्जलिर्भूत्वा विज्ञापयति पावकम्
॥५४॥कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत ।
ज्वलज्ज्वलनसङ्काशैर्हेमभाण्डैस्त्रसंहित च
॥५५॥काचित्प्रभूतदुःखार्ता विललाप वराङ्गना ।
भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा
॥५६॥आलिङ्ग्य गाढं सहसा पतिता तस्य मूर्धनि ।
काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि
॥५७॥भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा ।
मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम्
॥५८॥वेपते पतिता भूमौ खेदिता वडवा यथा ।
इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना
॥५९॥नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता ।
कुम्भिलस्य गृहं दग्धं पतितं धरणीतले
॥६०॥कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च ।
विरूपनयनस्यापि विरूपाक्षस्य चैव हि
॥६१॥शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः ।
दण्डपाणिर्विपाणिश्च सिंहवक्त्रस्तथानघ
॥६२॥दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस्तथैव च ।
बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ
॥६३॥एवमन्येऽपि ये केचिद्दानवा बलदर्पिताः ।
तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप ।
दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे
॥६४॥करुणाक्षरवादिन्यो निराधारा गताः शिवम् ।
यदि वैरं सुरारेश्च पुरुषोपरिपावक
॥६५॥स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः ।
अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति
॥६६॥किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः ।
किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः
॥६७॥न कारुण्यं त्वया किंचिद्दाक्षिण्यं च स्त्रियं प्रति ।
दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम्
॥६८॥म्लेच्छानामपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः ।
एवं विलपमानानां स्त्रीणां तत्रैव भारत
॥६९॥ज्वालाकलापबहुलः प्रज्वलत्येव पावकः ।
एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह
॥७०॥अवज्ञाय विनष्टोऽहं पापात्मा हरमञ्जसा ।
मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम्
॥७१॥गोब्राह्मणा हता नित्यमिह लोके परत्र च ।
नाशितान्यन्नपानानि मठारामाश्रमास्तथा
॥७२॥ऋषीणामाश्रमाश्चैव देवारामा गणालयाः ।
तेन पापेन मे ध्वंसस्तपसश्च बलस्य च
॥७३॥किं धनेन करिष्यामि राज्येणान्तःपुरेण च
॥७४॥वरं शङ्करपादौ च शरणं यामि मूढधीः ।
न माता न पिता चैव न बन्धुर्नापरो जनः
॥७५॥मुक्त्वा चैव महेशानं परमार्तिहरं परम् ।
आत्मना च कृतं पापमात्मनैव तु भुज्यते
॥७६॥अहं पुनः समस्तैश्च दह्यामि सह साधुभिः ।
एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि
॥७७॥निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः ।
स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर्मुहुः
॥७८॥हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ ।
त्वत्कोपानलनिर्दग्धो यदि वध्योऽस्मि शङ्कर
॥७९॥त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु ।
अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो
॥८०॥प्राणादिष्टतमं देव तस्माद्रक्षितुमर्हसि ।
यदि तेऽहमनुग्राह्यो वध्यो वा सुरसत्तम
॥८१॥प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे ।
पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च ।
स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे
॥८२॥एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः ।
स्तोत्रेण देवदेवेशं छन्दयामास भारत
॥८३॥बाण उवाच
शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः ।
कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः
॥८४॥जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार ।
जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र
॥८५॥जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप ।
जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग
॥८६॥जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त ।
जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार
॥८७॥जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र ।
जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल
॥८८॥जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन ।
जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण
॥८९॥जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय ।
जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व
॥९०॥जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार ।
जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख
॥९१॥अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः ।
प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर
॥९२॥अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् ।
अतिप्रमाथि च तदा तपो महत्सुदारुणम्
॥९३॥न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः ।
सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम्
॥९४॥यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् ।
तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः
॥९५॥निर्धनस्यैव चरतो न भयं विद्यते क्वचित् ।
धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम्
॥९६॥लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः ।
श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत्
॥९७॥त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः ।
इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते
॥९८॥त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः ।
त्वं दीक्षा यजमानश्च आकाशं सोम एव च
॥९९॥त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च ।
त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा
॥१००॥एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः ।
क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनमब्रवीत्
॥१०१॥ईश्वर उवाच
न भेतव्यं न भेतव्यमद्यप्रभृति दानव ।
सौवर्णे भवने तिष्ठ मम पार्श्वेऽथवा पुनः
॥१०२॥पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया ।
अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु
॥१०३॥मार्कण्डेय उवाच
भूयस्तस्य वरो दत्तो देवदेवेन भारत ।
स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः
॥१०४॥अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् ।
ततो निवारयामास रुद्रः सप्तशिखं तदा
॥१०५॥तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना ।
ज्वालामालाकुलं चान्यत्पतितं धरणीतले
॥१०६॥अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः ।
हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः
॥१०७॥दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः ।
एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम्
॥१०८॥द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके ।
प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम्
॥१०९॥दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे ।
रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः
॥११०॥हाहाकारपराणां तु ऋषीणां रक्षणाय च ।
स्वयं मूर्तिर्महेशानुमावृषभसंयुतः
॥१११॥मनसापि स्मरेद्यस्तु भक्त्या ह्यमरकण्टकम् ।
चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः
॥११२॥अतिपुण्यो गिरिश्रेष्ठो यस्माद्भरतसत्तम ।
अस्मान्नित्यं भवेद्राजन्सर्वपापक्षयंकरः
॥११३॥नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ।
नानागुल्मलताकीर्णो नानावल्लीभिरावृतः
॥११४॥सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः ।
श्वापदानां च घोषेण नित्यं प्रमुदितोऽभवत्
॥११५॥ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः ।
सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते
॥११६॥पतनं कुरुते योऽस्मिन्पर्वतेऽमरकण्टके ।
क्रीडते क्रमशो राजन्भुवनानि चतुर्दश
॥११७॥ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च ।
नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च
॥११८॥ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् ।
उमारुद्रं महाभाग ऐश्वरं तदनन्तरम्
॥११९॥परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् ।
तस्मिन्याति लयं धीरो विधिना नात्र संशयः
॥१२०॥युधिष्ठिर उवाच
कोऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम ।
एतन्मे सर्वमाचक्ष्व संशयोऽस्ति महामुने
॥१२१॥श्रीमार्कण्डेय उवाच
शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन ।
यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम्
॥१२२॥कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु ।
शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप
॥१२३॥त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् ।
दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत्
॥१२४॥लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् ।
रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत्
॥१२५॥अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् ।
स्वर्गलोकमनुप्राप्य क्रीडते त्रिदशैः सह
॥१२६॥त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस्तथैव च ।
मुक्त्वा मनोरमान्भोगांस्तदा गच्छेन्महीतलम्
॥१२७॥पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्
॥१२८॥ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता
॥१२९॥निर्वाप्य तद्बाणपुरं रेवया सह संगता ।
तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः
॥१३०॥तिलसंमिश्रतोयेन तर्पयेत्पितृदेवताः ।
पिण्डदानेन च पितॄन् पौण्डरीकफलं लभेत्
॥१३१॥अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
॥१३२॥अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः ।
तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान्
॥१३३॥समन्ताद्योजनं तीर्थं पुण्यं ह्यमरकण्टकम् ।
रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम्
॥१३४॥तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः
॥१३५॥वाचिकं मानसं चैव कायिकं त्रिविधं च यत् ।
नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत्
॥१३६॥अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप ।
तपस्तप्त्वा पुरा तत्र शक्रेण स्थापितं किल
॥१३७॥कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् ।
ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम्
॥१३८॥अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ।
कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम्
॥१३९॥एतानि दक्षिणे तीरे रेवाया भरतर्षभ ।
संसेवनस्नानदानैः पापसङ्घहराणि च
॥१४०॥भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः ।
तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम्
॥१४१॥एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे ।
तावभ्यर्च्य तथा नत्वा सम्यग्यात्राफलं भवेत् ।
अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ
॥१४२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥