मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १२६

3
अवन्तीखण्डः · रेवाखण्डः · 126

अयोनिप्रभवतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् ।

स्नातमात्रो नरस्तत्र न पश्येद्योनिसङ्कटम्

॥१॥

तत्र तीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।

अयोनिजो महादेव यथा त्वं परमेश्वर

॥२॥

तथा मोचय मां देव सम्भवाद्योनिसङ्कटात् ।

गन्धपुष्पादिधूपैश्च स मुच्येत्सर्वपातकैः

॥३॥

तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् ।

स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया

॥४॥

अयोनिजे महादेवं स्नापयेद्गन्धवारिणा ।

मधुक्षीरेण दध्ना वा स लभेद्विपुलां श्रियम्

॥५॥

अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् ।

पूजयित्वा महादेवं प्रीणयेद्गीतवाद्यकैः

॥६॥

वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् ।

ते वसन्ति शिवे लोके यावदाभूतसम्प्लवम्

॥७॥

तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् ।

विज्ञापयंश्च सततं मन्त्रेणानेन भारत

॥८॥

तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः ।

सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना

॥९॥

अयोनिजो महादेव यथा त्वं परमेश्वर ।

तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात्

॥१०॥

किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः ।

येनौंनमः शिवायेति प्रोक्तं देवस्य संनिधौ

॥११॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।

येनौंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः

॥१२॥

न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः ।

यत्फलं समवाप्नोति षडक्षर उदीरणात्

॥१३॥

तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् ।

द्विजानामयुतं साग्रं स लभेत्फलमुत्तमम्

॥१४॥

अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये ।

संस्कृत्य ददते भिक्षां फलं तस्य ततोऽधिकम्

॥१५॥

यतिहस्ते जलं दद्याद्भिक्षां दत्त्वा पुनर्जलम् ।

सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम्

॥१६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिप्रभवतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥