मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७२

3
अवन्तीखण्डः · रेवाखण्डः · 72

मणिनागेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् ।

उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ।

स्थापितं मणिनागेन लोकानां हितकाम्यया

॥१॥

युधिष्ठिर उवाच

आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् ।

क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः

॥२॥

कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् ।

मम सन्तापजं दुःखं दुर्योधनसमुद्भवम्

॥३॥

कर्णभीष्मोद्भवं रौद्रं दुःखं पाञ्चालिसम्भवम् ।

तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः

॥४॥

श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् ।

अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति

॥५॥

अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् ।

तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः

॥६॥

श्रीमार्कण्डेय उवाच

यथायथा त्वं नृप भाषसे च तथातथा मे सुखमेति भारती ।

शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ।

शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम्

॥७॥

कथयामि यथावृत्तमितिहासं पुरातनम्

॥८॥

कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत

॥९॥

द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।

गरुत्मन्तं च विनतासूत कद्रूरहीनथ

॥१०॥

संतोषेण च ते तात तिष्ठतः काश्यपे गृहे ।

कद्रूश्च विनता नाम हृष्टे च वनिते सदा

॥११॥

ताभ्यां सार्द्धं क्रीडते च कश्यपोऽपि प्रजापतिः ।

ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना

॥१२॥

उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् ।

पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम्

॥१३॥

धावमानमविश्रान्तं जवेन मनसोपमम् ।

तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत्

॥१४॥

कद्रूरुवाच

ब्रूहि भद्रे सहस्रांशोरश्वः किंवर्णको भवेत् ।

अहं ब्रवीमि कृष्णोऽयं त्वं किं वदसि तद्वद

॥१५॥

विनतोवाच

पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि ।

असत्यभाषणाद्भद्रे यमलोकं गमिष्यसि

॥१६॥

सत्यानृते तु वचने पणस्तव ममैव तु ।

सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे

॥१७॥

असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि ।

तदाहं त्वद्गृहे दासी भवामि सर्पमातृके

॥१८॥

यदि उच्चैःश्रवाः श्वेतोऽहं दासी च तवैव तु ।

एवं परस्परं द्वाभ्यां संवादोऽयं व्यवर्धत

॥१९॥

आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता ।

बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम्

॥२०॥

पुत्राणां कथितं पार्थ पणं चैव मया कृतम् ।

हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम्

॥२१॥

जाता दासी न सन्देहः श्वेतो भास्करवाहनः ।

उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित्

॥२२॥

कद्रूरुवाच

यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् ।

विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु

॥२३॥

एकं मुहूर्तमात्रं तु यावत्कृष्णः स दृश्यते ।

क्षणमात्रेण चैकेन दासी सा भवते मम

॥२४॥

दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् ।

ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम्

॥२५॥

सर्पा ऊचुः

यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता ।

तथा सापि विशेषेण वञ्चितव्या न मातरः

॥२६॥

माता च पितृभार्या च मातृमाता पितामही ।

कर्मणा मनसा वाचा हितं तासां समाचरेत्

॥२७॥

सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा ।

मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः

॥२८॥

हव्यवाहमुखे सर्वे ते यास्यन्त्यविचारितम् ।

मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः

॥२९॥

केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च ।

नष्टाः केचिद्दशदिशं कद्रूशापभयात्ततः

॥३०॥

केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् ।

केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे

॥३१॥

आश्रित्य नर्मदातोये मणिनागोत्तमो नृप ।

तपश्चचार विपुलमुत्तरे नर्मदातटे

॥३२॥

मातृशापभयात्पार्थ ध्यायते कामनाशनम् ।

अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम्

॥३३॥

वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः ।

एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः

॥३४॥

साधु साधु महाभाग सत्त्ववांस्तु भुजंगम ।

त्वया भक्त्या गृहीतोऽहं प्रीतस्ते ह्युरगेश्वर ।

वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते

॥३५॥

मणिनाग उवाच

मातृशापभयान्नाथ क्लिष्टोऽहं नर्मदातटे ।

त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा

॥३६॥

ईश्वर उवाच

हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया ।

मम लोके निवासश्च तव पुत्र भविष्यति

॥३७॥

मणिनाग उवाच

अत्र स्थाने महादेव स्थीयतामंशभागतः ।

सहस्रांशेन भागेन स्थीयतां नर्मदाजले ।

उपकाराय लोकानां मम नाम्नैव शङ्कर

॥३८॥

ईश्वर उवाच

स्थापयस्व परं लिङ्गमाज्ञया मम पन्नग ।

इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह

॥३९॥

मार्कण्डेय उवाच

तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः ।

पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः

॥४०॥

अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् ।

दध्ना च मधुना चैव घृतेन क्षीरयोगतः

॥४१॥

स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् ।

कामाङ्गदहनं देवमघासुरनिषूदनम्

॥४२॥

स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् ।

ते यान्ति च परे लोके सर्वपापविवर्जितैः

॥४३॥

श्राद्धं प्रेतेषु ये पार्थ चाष्टम्यां पञ्चमीषु च ।

ब्राह्मणैश्च सदा योग्यैर्वेदपाठकचिन्तकैः

॥४४॥

स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः ।

षट्कर्मनिरतैस्तात शूद्रप्रेषणवर्जितैः

॥४५॥

खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः ।

भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन

॥४६॥

वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् ।

स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप

॥४७॥

काणाष्टुंटाश्च मण्टाश्च वेदपाठविवर्जिताः ।

न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे

॥४८॥

यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह ।

सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने

॥४९॥

स याति परमं लोकं यावदाभूतसम्प्लवम् ।

ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले

॥५०॥

ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप ।

न तेषां जायते वंशे पन्नगानां भयं नृप

॥५१॥

पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् ।

सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले

॥५२॥

फलानि चैव दानानां शृणुष्वाथ नृपोत्तम ।

अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः

॥५३॥

तोयं शय्यां तथा छत्रं कन्यां दासीं सुभाषिणीम् ।

पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः

॥५४॥

सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ।

दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम्

॥५५॥

ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् ।

मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते

॥५६॥

तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् ।

पातकानि प्रलीयन्ते आमपात्रे यथा जलम्

॥५७॥

नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः ।

सोऽपि पापैर्विनिर्मुक्तः क्रीडते दैवतैः सह

॥५८॥

ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् ।

दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः

॥५९॥

सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः ।

त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा

॥६०॥

देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः ।

मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः

॥६१॥

एभिरेव गुणैर्युक्ता ये नराः पाण्डुनन्दन ।

सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते

॥६२॥

सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम ।

तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि

॥६३॥

सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते ।

न विषं क्रमते तेषां विचरन्ति यथेच्छया

॥६४॥

भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने ।

तत्फलं समवाप्नोति आख्यानश्रवणेन तु

॥६५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥