मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८३

3
अवन्तीखण्डः · रेवाखण्डः · 183

केदारेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

अतः परं महाराज गच्छेत्केदारसंज्ञकम् ।

यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् ।

सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत्

॥१॥

युधिष्ठिर उवाच

कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् ।

उत्तरे नर्मदाकूले एतद्विस्तरतो वद

॥२॥

श्रीमार्कण्डेय उवाच

पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः ।

भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके

॥३॥

अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।

भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया

॥४॥

तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् ।

वायुभक्षो निराहारश्चिरं धमनिसंततः

॥५॥

ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः ।

प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम्

॥६॥

ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव ।

स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च

॥७॥

एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव ।

पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने

॥८॥

भृगुरुवाच

पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो ।

उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।

भविष्यतीति च प्रोच्य गता देवी विदं प्रति

॥९॥

पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् ।

तथा कुरु महेशान प्रसन्नो यदि शङ्कर

॥१०॥

ईश्वर उवाच

केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति ।

कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि

॥११॥

एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति ।

पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः

॥१२॥

तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः ।

वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः

॥१३॥

दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश ।

भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः

॥१४॥

पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति ।

नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः

॥१५॥

यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् ।

तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत ।

श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः

॥१६॥

इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् ।

सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम्

॥१७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥