मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५०

3
अवन्तीखण्डः · रेवाखण्डः · 150

कुसुमेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् ।

दक्षिणे नर्मदाकूले उपपातकनाशनम्

॥१॥

कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः ।

ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः

॥२॥

कामो मनोभवो विश्वः कुसुमायुधचापभृत् ।

स कामान् ददाति सर्वान् पूजितो मीनकेतनः

॥३॥

तेन निर्दग्धकायेन चाराध्य परमेश्वरम् ।

अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे

॥४॥

युधिष्ठिर उवाच

अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद ।

न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन

॥५॥

एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम ।

श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह

॥६॥

श्रीमार्कण्डेय उवाच

आदौ कृतयुगे तात देवदेवो महेश्वरः ।

तपश्चचार विपुलं गङ्गासागरसंस्थितः

॥७॥

तेन सम्पादिता लोकास्तपसा ससुरासुराः ।

जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम्

॥८॥

व्यापकः सर्वभूतानां देवदेवो महेश्वरः ।

संतापयति लोकांस्त्रींस्तन्निवारय गोपते

॥९॥

श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा ।

चिन्तयामास मनसा तपोविघ्नायचादिशत्

॥१०॥

अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् ।

वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम्

॥११॥

गत्वा तत्र महादेवं तपश्चरणतत्परम् ।

क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम्

॥१२॥

एवमुक्तास्तु ते सर्वे देवराजेन भारत ।

देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ

॥१३॥

वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले ।

प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले

॥१४॥

तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः ।

मधुमाधवगन्धेन सकिन्नरमहोरगाः

॥१५॥

यावदालोकते तावत्तद्वनं व्याकुलीकृतम् ।

वीक्षते मदनाविष्टं दशावस्थागतं जनम्

॥१६॥

देवदेवोऽपि देवानामवस्थात्रितयं गतः ।

सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे

॥१७॥

एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् ।

अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः

॥१८॥

एवं दृष्टः स देवेन सशरः सशरासनः ।

भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम्

॥१९॥

कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः ।

भीता यथागतं सर्वे जग्मुश्चैव दिशो दश

॥२०॥

कामेन रहिता लोकाः ससुरासुरमानवाः ।

ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः

॥२१॥

सीदमानं जगद्दृष्ट्वा तमूचुः परमेष्ठिनम् ।

जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात्

॥२२॥

प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो

॥२३॥

एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः ।

जगाम सहितस्तत्र यत्र देवो महेश्वरः

॥२४॥

अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् ।

स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः

॥२५॥

ततस्तुष्टो महादेवो देवानां परमेश्वरः ।

उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान्

॥२६॥

किं कार्यं कश्च सन्तापः किं वागमनकारणम् ।

देवतानामृषीणां च कथ्यतां मम माचिरम्

॥२७॥

देवा ऊचुः

कामनाशाज्जगन्नाशो भवितायं चराचरे ।

त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुमर्हसि

॥२८॥

एतच्छ्रुत्वा वचस्तेषां विमृश्य परमेश्वरः ।

चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम्

॥२९॥

आजगाम ततः शीघ्रमनङ्गो ह्यङ्गतां गतः ।

प्राणदः सर्वभूतानां पश्यतां नृपसत्तम

॥३०॥

ततः शङ्खनिनादेन भेरीणां निःस्वनेन च ।

अभ्यनन्दंस्ततो देवं सुरासुरमहोरगाः

॥३१॥

नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः ।

विसर्जिताः पुनर्जग्मुर्यथागतमरिन्दम

॥३२॥

गतेषु सर्वदेवेषु कामदेवोऽपि भारत ।

तपश्चचार विपुलं नर्मदातटमाश्रितः

॥३३॥

तपोजपकृशीभूतो दिव्यं वर्षशतं किल ।

महाभूतैर्विघ्नकरैः पीड्यमानः समन्ततः

॥३४॥

आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः ।

चकार रक्षां सर्वत्र शरपाते नृपोत्तम

॥३५॥

ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः ।

वरेण छन्दयामास कामं कामविनाशनः

॥३६॥

ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः ।

प्रणतः प्राञ्जलिर्भूत्वा देवदेवं त्रिलोचनम्

॥३७॥

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

अत्र तीर्थे जगन्नाथ सदा संनिहितो भव

॥३८॥

तथेति चोक्त्वा वचनं देवदेवो महेश्वरः ।

जगामाकाशमाविश्य स्तूयमानोऽप्सरोगणैः

॥३९॥

गते चादर्शनं देवे कामदेवो जगद्गुरुम् ।

स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम्

॥४०॥

तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः ।

चैत्रमासे चतुर्दश्यां मदनस्य दिनेऽथवा

॥४१॥

प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् ।

तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः

॥४२॥

कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप ।

पिण्डनिर्वपणं कुर्यात्तस्य पुण्यफलं शृणु

॥४३॥

सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् ।

पिण्डदानात्फलं तच्च लभते नात्र संशयः

॥४४॥

अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् ।

तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः

॥४५॥

कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर ।

प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः

॥४६॥

संन्यासं कुरुते योऽत्र जितक्रोधो जितेन्द्रियः ।

कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम्

॥४७॥

तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः ।

क्रीडते सेव्यमानस्तु कल्पकोटिशतं नृप

॥४८॥

पूर्णे चैव ततः काल इह मानुष्यतां गतः ।

जायते राजराजेन्द्रैः पूज्यमानो नृपो महान्

॥४९॥

सुरूपः सुभगो वाग्मी विक्रान्तो मतिमाञ्छुचिः ।

जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः

॥५०॥

एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् ।

कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम्

॥५१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः ॥