शङ्खचूडतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
शङ्खचूडस्य नाम्ना वै प्रसिद्धं भूमिमण्डले
॥१॥शङ्खचूडः स्वयं तत्र संस्थितः पाण्डुनन्दन ।
वैनतेयभयात्पार्थ सुखदनर्मदातटे
॥२॥तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः ।
स्नापयेच्छङ्खचूडं तु क्षीरक्षौद्रेण सर्पिषा
॥३॥रात्रौ जागरणं कुर्याद्देवस्याग्रे नराधिप ।
दधिभक्तेन सम्पूज्य ब्राह्मणाञ्छंसितव्रतान् ।
गोप्रदाने द्विजेन्द्रोऽयं सर्वपापक्षयंकरः
॥४॥तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् ।
स याति परमं लोकं शङ्करस्य वचो यथा
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शङ्खचूडतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ॥