करञ्जतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
करञ्जाख्यं ततो गच्छेत्सोपवासो जितेन्द्रियः ।
तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते
॥१॥अर्चयित्वा महादेवं दत्त्वा दानं तु भक्तितः ।
सुवर्णं रजतं वापि मणिमौक्तिकविद्रुमान्
॥२॥पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ।
कोटिकोटिगुणं सर्वं जायते नात्र संशयः
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करञ्जतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥