मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४९

3
अवन्तीखण्डः · रेवाखण्डः · 49

उमया सहितो रुद्रः कैलासमगमन्नगम्

मार्कण्डेय उवाच

अन्धकं तु निहत्याथ देवदेवो महेश्वरः ।

उमया सहितो रुद्रः कैलासमगमन्नगम्

॥१॥

आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः ।

हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम्

॥२॥

ईश्वर उवाच

उपाविशन्तु ते सर्वे ये केचन समागताः ।

निहतो दानवो ह्येष गीर्वाणार्थे पितामह

॥३॥

रक्तेन तस्य मे शूलं निर्मलं नैव जायते ।

शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः

॥४॥

कर्तुमिच्छाम्यहं सम्यक्तीर्थयानं चतुर्मुख ।

आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः

॥५॥

इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ ।

प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः

॥६॥

अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप ।

नर्मदायां ततो गत्वा देवो देवैः समन्वितः

॥७॥

उत्तरं दक्षिणं कूलमवागाहत्प्रियव्रतः ।

गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम्

॥८॥

तत्र स्थित्वा महादेवो देवैः सह महीपते ।

भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह

॥९॥

मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् ।

तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः

॥१०॥

गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् ।

निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित्

॥११॥

देवैराह्वानिता तत्र महापुण्या च भारती ।

पर्वतान्निःसृता तत्र महापुण्या सरस्वती

॥१२॥

द्वितीयः सङ्गमस्तत्र यथा वेण्यां सितासितः ।

तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम्

॥१३॥

संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् ।

तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः

॥१४॥

तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता ।

अम्भसो न भवेन्मार्गः कुण्डमध्यस्थितस्य च

॥१५॥

शूलाग्रेण कृता रेखा ततस्तोयं वहेन्नृप ।

तत्तोयं च गतं तत्र यत्र रेवा महानदी

॥१६॥

जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम ।

शूलभेदे च देवेशः स्नानं कुर्याद्यथाविधि

॥१७॥

आत्मानं मन्यते शुद्धं न किंचित्कल्मषं कृतम् ।

तस्यैवोत्तरकाष्ठायां देवदेवो जगद्गुरुः

॥१८॥

आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः ।

सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम्

॥१९॥

सर्वपापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ।

तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः

॥२०॥

रक्षापालांस्ततो मुक्त्वा शतं साष्टविनायकान् ।

क्षेत्रपालाः शतं साष्टं तद्रक्षन्ति प्रयत्नतः

॥२१॥

विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुमिच्छति ।

केचित्कुटुम्बात्ततासु व्याग्राः केचित्कृषीषु च

॥२२॥

केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः ।

परोक्षवादं कुर्वन्ति केऽपि हिंसारताः सदा

॥२३॥

परदाररताः केचित्केचिद्वृत्तिविहिंसकाः ।

अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते

॥२४॥

क्षुधया पीड्यते भार्या पुत्रभृत्यादयस्तदा ।

मोहजालेषु योज्यन्ते एवं देवगणैर्नराः

॥२५॥

पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते ।

संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा

॥२६॥

धन्याः पुण्याश्च ये मर्त्यास्तेषां स्नानं प्रजायते ।

सरस्वत्या भोगवत्या देवनद्या विशेषतः

॥२७॥

अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः ।

दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः

॥२८॥

देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् ।

इदं तीर्थं तु देवेश गयातीर्थेन ते समम्

॥२९॥

गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति ।

शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः

॥३०॥

यक्षकिन्नरगन्धर्वैर्दिक्पालैर्लोकपैरपि ।

नृत्यगीतैस्तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः

॥३१॥

पूज्यमानो गणैः सर्वैः सिद्धैर्नागैर्महेश्वरः ।

देवेन भेदितं तत्र शूलाग्रेण नराधिप

॥३२॥

त्रिधा यत्रेक्ष्यतेऽद्यापि ह्यावर्तः सुरपूरितः ।

कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम्

॥३३॥

सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ।

तत्र तीर्थे तु यः स्नाति उपवासपरायणः

॥३४॥

दीक्षामन्त्रविहीनोऽपि मुच्यते चाब्दिकादघात् ।

ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च

॥३५॥

वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः ।

अक्षरैर्दशभिश्चैव षड्भिर्वा त्रिभिरेव वा

॥३६॥

पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप ।

ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च

॥३७॥

पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद्यथाविधि ।

दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः

॥३८॥

ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः ।

केदारे च यथा पीतं रुद्रकुण्डे तथैव च

॥३९॥

पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् ।

ओङ्कारेण समायुक्तमेतद्वेद्यं प्रकीर्तितम्

॥४०॥

यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः ।

तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः

॥४१॥

कुलानां तारयेद्विंशं दशपूर्वान्दशापरान् ।

गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः

॥४२॥

स तत्र फलमाप्नोति शूलभेदे न संशयः ।

यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः

॥४३॥

तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा ।

गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा

॥४४॥

शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः ।

भक्त्या ददाति यस्तत्र काञ्चनं गां महीं तिलान्

॥४५॥

आसनोपानहौ शय्यां वराश्वान् क्षत्रियस्तथा ।

वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः

॥४६॥

सयोक्त्रं लाङ्गलं दद्यात्कृष्टां चैव वसुंधराम् ।

दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे

॥४७॥

श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये ।

श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते ।

त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत्

॥४८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥