व्यासतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् ।
दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम्
॥१॥युधिष्ठिर उवाच
कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् ।
एतदाख्याहि संक्षेपात्त्यज ग्रन्थस्य विस्तरम्
॥२॥श्रीमार्कण्डेय उवाच
साधु साधु महाबाहो धर्मवान्साधुवत्सल ।
स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः
॥३॥दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर ।
पीडितो वृद्धभावेन अकल्पोऽहं नृपात्मज
॥४॥विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः ।
गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया
॥५॥कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् ।
अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु
॥६॥विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् ।
कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम्
॥७॥व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः ।
प्रत्यक्षः प्रत्ययो यत्र दृश्यतेऽद्य कलौ युगे
॥८॥विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् ।
तस्योत्पत्तिं समासेन कथयामि नृपात्मज
॥९॥आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः ।
तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम्
॥१०॥प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले ।
पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः
॥११॥भिक्षार्थी संचरेद्ग्रामं नावा यत्रैव तिष्ठति ।
तत्र तेन परा दृष्टा बाला चैव मनोहरा
॥१२॥तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा ।
मां नयस्व परं पारं कासि त्वं मृगलोचने
॥१३॥नावारूढे नदीतीरे मम चित्तप्रमाथिनि ।
एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम्
॥१४॥कथयामास चात्मानं दृष्ट्वा तं काममोहितम् ।
कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम
॥१५॥नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो ।
मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि
॥१६॥एवमुक्तस्तया सोऽथ क्षणं ध्यात्वाब्रवीदिदम्
॥१७॥पराशर उवाच
अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् ।
कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि
॥१८॥कन्योवाच
कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा ।
कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम्
॥१९॥पराशर उवाच
कथयामि समस्तं यत्त्वया पृष्टमशेषतः ।
वसुर्नामेति भूपालः सोमवंशविभूषणः
॥२०॥जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः ।
शतानि सप्त भार्याणां पुत्राणां च दशैव तु
॥२१॥धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा ।
म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः
॥२२॥तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् ।
संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः
॥२३॥समरं तैः समारब्धं म्लेच्छैश्च वसुना सह ।
जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने
॥२४॥करदास्ते कृतास्तेन सपुत्रबलवाहनाः ।
प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे
॥२५॥प्रवासस्थे महीपाले संजाता सा रजस्वला ।
नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत्
॥२६॥विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः ।
मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा
॥२७॥दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः ।
आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ
॥२८॥दूत उवाच
परतीरं गतो देवि वसुराजारिशासनः ।
तत्र गन्तुमशक्येत जलयानैर्विना शुभे
॥२९॥तानि यानानि सर्वाणि गृहीतानि परे तटे ।
दूतवाक्येन सा राज्ञी विषण्णा कामपीडिता
॥३०॥तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे ।
स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः
॥३१॥समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि ।
सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप
॥३२॥व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया ।
त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति
॥३३॥ऋतुकालोऽद्य संजातो लिख लेखं तु लेखकं ।
लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु
॥३४॥शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ
॥३५॥सत्यभामोवाच
नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः ।
शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम्
॥३६॥उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् ।
ततः पक्षी गतः शीघ्रं वसुराजसमीपतः
॥३७॥क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते ।
वसुराज्ञा ततो लेखो गृह्य हस्तेऽवधारितः
॥३८॥लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः ।
अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम्
॥३९॥शुकस्य सोऽपयामास गच्छ राज्ञीसमीपतः ।
प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह
॥४०॥समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः ।
सामिषं तं शुकं ज्ञात्वा श्येनस्तमभ्यधावत
॥४१॥हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत ।
मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि
॥४२॥मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः ।
कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि
॥४३॥प्राप्तोऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः ।
यावद्विदारितो मत्स्यस्तावद्दृष्टा त्वमुत्तमे
॥४४॥शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा ।
दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे
॥४५॥हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् ।
स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम्
॥४६॥गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा ।
भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे
॥४७॥ततः सा चिन्तयामास पराशरवचस्तदा ।
एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर
॥४८॥उवाच साधु मे ब्रह्मन्मत्स्यगन्धोऽनु वर्तते ।
ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता
॥४९॥कृता योगबलेनैव ज्वालयित्वा विभावसुम् ।
कृत्वा प्रदक्षिणं वह्निमूढा तेन रसात्तदा
॥५०॥जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् ।
ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन
॥५१॥हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ ।
न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम्
॥५२॥ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी ।
आगता तामसी माया यया व्याप्तं चराचरम्
॥५३॥ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता ।
ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं क्रीडितं तदा
॥५४॥ततः सा तत्क्षणादेव गर्भभारेण पीडिता ।
प्रसूता बालकं तत्र जटिलं दण्डधारिणम्
॥५५॥कमण्डलुधरं शान्तं मेखलाकटिभूषितम् ।
उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम्
॥५६॥ततोऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् ।
वेपमाना ततो बाला जगाम शरणं मुनेः
॥५७॥रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते ।
जातं मेऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् ।
दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम्
॥५८॥पराशर उवाच
मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि ।
नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि
॥५९॥शंतनुर्नाम राजा यः स ते भर्ता भविष्यति ।
प्रथमा महिषी तस्य सोमवंशविभूषणा
॥६०॥गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता ।
मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम्
॥६१॥इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता ।
नत्वोचे मातरं भक्त्या साष्टाङ्गं विनयानतः
॥६२॥क्षम्यतां मातरुक्तं मे प्रसादः क्रियतामपि ।
ईश्वराराधने यत्नं करिष्याम्यहमम्बिके
॥६३॥ततः सा पुत्रवाक्येन विषण्णा वाक्यमब्रवीत्
॥६४॥योजनगन्धोवाच
मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् ।
त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम्
॥६५॥नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् ।
नास्ति सत्यपरो धर्मो नानृतात्पातकं परम्
॥६६॥बालभावे मया जात आधारः किल जायसे ।
न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम्
॥६७॥व्यास उवाच
मा विषादं कुरुष्वान्तः सत्यमेतन्मयोरितम् ।
आपत्कालेऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये
॥६८॥आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् ।
इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम्
॥६९॥पराशरसुतस्तत्र विषष्णो वनमध्यतः ।
त्रेतायुगावसाने तु द्वापरादौ नरेश्वर
॥७०॥व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः ।
आख्यातो नारदेनैव पुत्रः पराशरस्य सः
॥७१॥कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे ।
ततो नारदवाक्येन आगताः सुरसत्तमाः
॥७२॥रामः पितामहः शक्रो मुनिसङ्घैः समावृताः ।
आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन्
॥७३॥पितामहेन वै बालो गर्भाधानादिसंस्कृतः ।
द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात्
॥७४॥कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति ।
विरञ्चिनाभिषिक्तोऽसौ मुनिसङ्घैः पुनःपुनः
॥७५॥व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः ।
तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु
॥७६॥गङ्गावगाहिता तेन केदारश्च सपुष्करः ।
गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती
॥७७॥उज्जयिन्यां महाकालं सोमनाथं प्रभासके ।
पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः
॥७८॥अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् ।
साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च
॥७९॥तपश्चचार विपुलं नर्मदातटमाश्रितः ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः
॥८०॥सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् ।
स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम्
॥८१॥सृष्टिसंहारकर्तारमछेद्यं वरदं शुभम् ।
नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः
॥८२॥अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः ।
प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः
॥८३॥ईश्वर उवाच
तोषितोऽहं त्वया वत्स वरं वरय शोभनम्
॥८४॥व्यास उवाच
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।
प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि ।
अतीतानागतज्ञोऽहं त्वत्प्रसादादुमापते
॥८५॥ईश्वर उवाच
एवं भवतु ते पुत्र मत्प्रसादादसंशयम् ।
त्वयि भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे
॥८६॥सहस्रांशार्धभावेन प्रत्यक्षोऽहं त्वदाश्रमे ।
इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम्
॥८७॥पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु ।
शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा
॥८८॥पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च ।
देवैर्वर्धापितः सर्वैरिञ्चेन्द्रपुरोगमैः
॥८९॥पुत्रजन्मन्यथाजग्मुर्वशिष्ठाद्या मुनीश्वराः ।
तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः
॥९०॥मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती
॥९१॥एवमादिसहस्राणि लक्षकोटिशतानि च ।
सशिष्याश्च महाभागा नर्मदातटमाश्रिताः
॥९२॥व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप ।
दृष्ट्वा तान्सोऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः
॥९३॥पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि ।
आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत्
॥९४॥कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह ।
उद्धृतोऽहं न सन्देहो युष्मत्सम्भाषणार्चनात्
॥९५॥आरण्यानि च शाकानि फलान्यारण्यजानि च ।
तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम्
॥९६॥न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च ।
ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम्
॥९७॥वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् ।
पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः
॥९८॥उत्तरं दीयतां तात कृष्णद्वैपायनस्य च ।
एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः ।
प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम्
॥९९॥श्रीपराशर उवाच
नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ ।
भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः
॥१००॥व्यास उवाच
करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् ।
यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम्
॥१०१॥एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः ।
स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर
॥१०२॥जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे ।
जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे
॥१०३॥जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे ।
जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे
॥१०४॥जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे ।
जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते
॥१०५॥जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते ।
जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे
॥१०६॥जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे ।
जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धवरे
॥१०७॥एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
गृहे वा शुद्धभावेन कामक्रोधविवर्जितः
॥१०८॥तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः ।
प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी
॥१०९॥न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ।
पितामहोऽपि मुह्येत देवि त्वद्गुणकीर्तनात्
॥११०॥वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे ।
कथं गुणानहं देवि त्वदीयाञ्ज्ञातुमुत्सहे
॥१११॥इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः ।
प्रसन्ना नर्मदादेवी ततो वचनमब्रवीत्
॥११२॥सत्यवादेन तुष्टाहं भोभो व्यास महामुने ।
यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम्
॥११३॥व्यास उवाच
यदि तुष्टासि मे देवि यदि देयो वरो मम ।
आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि
॥११४॥नर्मदोवाच
अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् ।
इन्द्रचन्द्रयमैः शक्यमुन्मार्गे न प्रवर्तितुम्
॥११५॥याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् ।
एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा
॥११६॥वृथा क्लेशोऽद्य मे जात इति मत्वा पपात ह ।
धरणी चलिता सर्वा सशैलवनकानना
॥११७॥मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः ।
हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः
॥११८॥व्यासमुत्थापयामासुर्वेदव्यसनतत्परम् ।
ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे
॥११९॥गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् ।
एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः
॥१२०॥सुशीतलैस्तं बहुभिश्च वातैर्रेवाभ्यषिञ्चत्स्वजलेन भीता ।
सचेतनः सत्यवतीसुतोऽपि प्रणम्य देवान्सरितं जगाद
॥१२१॥व्यास उवाच
तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् ।
यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम्
॥१२२॥नर्मदोवाच
यतो यतो मां हि महानुभाव निनीषते चित्तमिलातलेऽत्र ।
विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे
॥१२३॥एवमुक्तो महातेजा व्यासः सत्यवतीसुतः ।
दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम्
॥१२४॥दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः ।
व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी
॥१२५॥दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता ।
व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः
॥१२६॥पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः ।
किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः
॥१२७॥व्यास उवाच
तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् ।
एतदेव नरैः कार्यं साधूनां यत्सुखावहम्
॥१२८॥यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि ।
तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः
॥१२९॥आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् ।
प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम ।
स्थातव्यं स्वाश्रमे सर्वैर्रेवाया उत्तरे तटे
॥१३०॥मार्कण्डेय उवाच
स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः ।
व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः
॥१३१॥श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् ।
गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा
॥१३२॥पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः ।
पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः
॥१३३॥विश्वामित्रोऽप्यगस्त्यश्च उद्दालकयमौ तथा ।
शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः
॥१३४॥शातातपो दधीचिश्च कपिलो गालवस्तथा ।
जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा
॥१३५॥वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च ।
जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा
॥१३६॥एवमादिसहस्राणि जुह्वते जातवेदसम् ।
अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः
॥१३७॥एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा ।
ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम्
॥१३८॥अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च ।
पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः
॥१३९॥साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् ।
ब्राह्मणान्पूजयामास शाकमूलफलेन च
॥१४०॥पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन ।
आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः
॥१४१॥तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः
॥१४२॥युधिष्ठिर उवाच
व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे ।
स्नानदानविधानं च यस्मिन्काले महाफलम्
॥१४३॥श्रीमार्कण्डेय उवाच
कथयामि समस्तं ते भ्रातृभिः सह पाण्डव ।
कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः
॥१४४॥उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ।
स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा
॥१४५॥दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ।
श्रीखण्डेन सुगन्धेन गुण्ठयेत्परमेश्वरम्
॥१४६॥ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् ।
मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः
॥१४७॥उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः ।
अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम्
॥१४८॥इक्षुगडुकदानेन तुष्यते परमेश्वरः ।
गडुकाष्टकदानेन पातकं यात्यहोर्जितम्
॥१४९॥मासर्जितं च नश्येत गडुकाष्टशतेन च ।
षाण्मासिकं सहस्रेण द्विगुणैरब्दिकं तथा
॥१५०॥आजन्मजनितं पापमयुतेन प्रणश्यति ।
द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः
॥१५१॥षड्गुणैर्जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा ।
रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः
॥१५२॥पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः ।
मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम्
॥१५३॥वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् ।
देवान्पित्ःन्मनुष्यांश्च विधिवत्तर्पयेद्बुधः
॥१५४॥ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् ।
यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात्
॥१५५॥अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् ।
अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम्
॥१५६॥पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् ।
स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान्
॥१५७॥भिन्नवृत्तिकरान् पापान् पतिताञ्छूद्रसेवनान् ।
शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे
॥१५८॥परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् ।
वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान्
॥१५९॥ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च ।
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः
॥१६०॥नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ।
ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः
॥१६१॥उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् ।
यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते
॥१६२॥प्रत्यक्षा सुरभी तत्र जलधेनुस्तथाघृता ।
तिलधेनुः प्रदातव्या महिष्यश्च तथैव च
॥१६३॥कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः ।
कन्यापुस्तकयोर्दाता सोऽक्षयं लोकमाप्नुयात्
॥१६४॥धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ ।
दापयेत्स्वर्गकामस्तु इति मे सत्यभाषितम्
॥१६५॥सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् ।
मन्दिरं परया भक्त्या परमेशमथापि वा
॥१६६॥प्रदक्षिणां विधानेन यः करोत्यत्र मानवः ।
जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप
॥१६७॥कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः ।
सप्तसागरपर्यन्ता वेष्टिता तेन भारत
॥१६८॥द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् ।
वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात्
॥१६९॥यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा ।
लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः
॥१७०॥नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् ।
स समाः रोमसंख्याता नाके वसति भारत
॥१७१॥सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् ।
भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः
॥१७२॥सपत्नीकं ततो विप्रं पूजयेत्तत्र भक्तितः ।
सितरक्तानि वस्त्राणि यो दद्यादग्रजन्मने
॥१७३॥कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः ।
नास्ति विप्रसमो बन्धुरिह लोके परत्र च
॥१७४॥यमलोके महाघोरे पतन्तं योऽभिरक्षति ।
इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम्
॥१७५॥पूजयेत्परया भक्त्या सामगं वा विशेषतः ।
द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः
॥१७६॥न तेषां जायते शोको न हानिर्न च दुष्कृतम् ।
प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं ततः
॥१७७॥यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः ।
अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः
॥१७८॥तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च ।
सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ
॥१७९॥समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश ।
महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः
॥१८०॥पिता पितामहश्चैव तथैव प्रपितामहः ।
वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम्
॥१८१॥अस्मद्गोत्रेऽस्ति कः पुत्रो यो नो दद्यात्तिलोदकम् ।
कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च
॥१८२॥स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् ।
एतत्ते कथितं सर्वं द्वीपेश्वरमनुत्तमम्
॥१८३॥यः पठेत्परया भक्त्या शृणुयात्तद्गतो नृप ।
सोऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे
॥१८४॥ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः ।
कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः
॥१८५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमोऽध्यायः ॥