गोपेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
गोपेश्वरं ततो गच्छेदुत्तरे नर्मदातटे ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः
॥१॥तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
बर्हियुक्तेन यानेन स गच्छेच्छिवमन्दिरे
॥२॥क्रीडित्वा सुचिरं कालं शिवलोके नराधिप ।
इह मानुष्यतां प्राप्य राजा भवति वीर्यवान्
॥३॥हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं नरः
॥४॥सम्प्राप्ते कार्त्तिके मासि नवम्यां शुक्लपक्षतः ।
सोपवासः शुचिर्भूत्वा दीपकांस्तत्र दापयेत्
॥५॥गन्धपुष्पैः समभ्यर्च्य रात्रौ कुर्वीत जागरम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप
॥६॥यावत्पुण्यं फलं संख्या दीपकानां तथैव च ।
तावद्युगसहस्राणि शिवलोके महीयते
॥७॥तस्मिंस्तीर्थे तु राजेन्द्र लिङ्गपूरणकं विधिम् ।
तथैव पद्मकैश्चैव दधिभक्तैस्तथैव च
॥८॥यस्तु कुर्यान्नरश्रेष्ठ तस्य पुण्यफलं शृणु ।
यावन्ति तिलसंख्यानि दधिभक्तं तथैव च
॥९॥पद्मसंख्या शिवे लोके मोदते कालमीप्सितम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यत्किंचिद्दीयते नृप
॥१०॥सर्वं कोटिगुणं तस्य संख्यातुं वा न शक्यते ।
एवं ते कथितं सर्वं सर्वतीर्थमनुत्तमम्
॥११॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥