मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१६

3
अवन्तीखण्डः · रेवाखण्डः · 216

अषाढीतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

अषाढीतीर्थमागच्छेत्ततो भूपालनन्दन ।

कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः

॥१॥

चातुर्युगमिदं तीर्थं सर्वतीर्थेष्वनुत्तमम् ।

तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत्

॥२॥

तत्र तीर्थे तु यः कश्चित्कुरुते प्राणमोक्षणम् ।

अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमोऽध्यायः ॥