मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९

3
अवन्तीखण्डः · रेवाखण्डः · 19

काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम

श्रीमार्कण्डेय उवाच

ततस्त्वेकार्णवे तस्मिन्मुमूर्षुरहमातुरः ।

काकूच्छ्वासस्तरंस्तोयं बाहुभ्यां नृपसत्तम

॥१॥

शृणोम्यर्णवमध्यस्थो निःशब्दस्तिमिते तदा ।

अम्भोरवमनौपम्यं दिशो दश विनादिनम्

॥२॥

हंसकुदेन्दुसंकाशां हारगोक्षीरपाण्डुराम् ।

नानारत्नविचित्राङ्गीं स्वर्णशृङ्गां मनोरमाम्

॥३॥

सुरैः प्रवालकमयैर्लाङ्गुलध्वजशोभिताम् ।

प्रलम्बघोणां नर्दन्तीं खुरैरर्णवगाहिनीम्

॥४॥

गां ददर्शाहमुद्विग्नो मामेवाभिमुखीं स्थिताम् ।

किंकिणीजालमुक्ताभिः स्वर्णघण्टासमावृताम्

॥५॥

तस्याश्चरणविक्षेपैः सर्वमेकार्णवं जलम् ।

विक्षिप्तफेनपुञ्जौघैर्नृत्यन्तीव समं ततः

॥६॥

ररास सलिलोत्क्षेपैः क्षोभयन्ती महार्णवम् ।

सा मामाह महाभाग श्लक्ष्णगम्भीरया गिरा

॥७॥

मा भैषीर्वत्स वत्सेति मृत्युस्तव न विद्यते ।

महादेवप्रसादेन न मृत्युस्ते ममापि च

॥८॥

ममाश्रयस्व लाङ्गूलं त्वामतस्तारयाम्यहम् ।

घोरादस्माद्भयाद्विप्र यावत्संप्लवते जगत्

॥९॥

क्षुत्तृषाप्रतिघातार्थं स्तनौ मे त्वं पिबस्व ह ।

पयोऽमृताश्रयं दिव्यं तत्पीत्वा निर्वृतो भव

॥१०॥

तस्यास्तद्वचनं श्रुत्वा हर्षात्पीतो मया स्तनः ।

न क्षुत्तृषा पीतमात्रे स्तने मह्यं तदाभवत्

॥११॥

दिव्यं प्राणबलं जज्ञे समुद्रप्लवनक्षमम् ।

ततस्तां प्रत्युवाचेदं का त्वमेकार्णवीकृते

॥१२॥

भ्रमसे ब्रूहि तत्त्वेन विस्मयो मे महान्हृदि ।

भ्रमतोऽत्र ममार्तस्य मुमूर्षोः प्रहतस्य

॥१३॥

त्वं हि मे शरणं जाता भाग्यशेषेण सुव्रते

॥१४॥

गौरुवाच

किमहं विस्मृता तुभ्यं विश्वरूपा महेश्वरी ।

नर्मदा धर्मदा न्ःणां स्वर्गशर्मबलप्रदा

॥१५॥

दृष्ट्वा त्वां सीदमानं तु रुद्रेणाहं विसर्जिता ।

तं द्विजं तारयस्वार्ये मा प्राणांस्त्यजतां जले

॥१६॥

गोरूपेण विभोर्वाक्यात्त्वत्सकाशमिहागता ।

मा मृषावचनः शम्भुर्भवेदिति च सत्वरा

॥१७॥

एवमुक्तस्तयाहं तु इन्द्रायुधनिभं शुभम् ।

लाङ्गूलमव्ययं ज्ञात्वा भुजाभ्यामवलम्बितः

॥१८॥

ततोऽतरं तं जलधिं लाङ्गूलध्वजमाश्रितः ।

असौ देवो महादेव इति मां प्रत्यभाषत

॥१९॥

ततो युगसहस्रान्तमहं कालं तया सह ।

व्यचरं वै तमोभूते सर्वतः सलिलावृते

॥२०॥

महार्णवे ततस्तस्मिन् भ्रमन्गोः पुच्छमाश्रितः ।

निर्वाते चान्धकारे च निरालोके निरामये

॥२१॥

अकस्मात्सलिले तस्मिन्नतसीपुष्पसन्निभम् ।

विभिन्नांजनसङ्काशमाकाशमिव निर्मलम्

॥२२॥

नीलोत्पलदलश्यामं पीतवाससमव्ययम् ।

किरीटेनार्कवर्णेन विद्युद्विद्योतकारिणा

॥२३॥

भ्राजमानेन शिरसा खमिवात्यन्तरूपिणम् ।

कुण्डलोद्धष्टगल्लं तु हारोद्द्योतितवक्षसम्

॥२४॥

जाम्बूनदमयैर्दिव्यैर्भूषणैरुपशोभितम् ।

नागोपधानशयनं सहस्रादित्यवर्चसम्

॥२५॥

अनेकबाहूरुधरं नैकवक्त्रं मनोरमम् ।

सुप्तमेकार्णवे वीरं सहस्राक्षशिरोधरम्

॥२६॥

जटाजूटेन महता स्फुरद्विद्युत्समार्चिषा ।

एकार्णवं जगत्सर्वं व्याप्य देवं व्यवस्थितम्

॥२७॥

ग्रसित्वा शङ्करः सर्वं सदेवासुरमानवम् ।

प्रपश्याम्यहमीशानं सुप्तमेकार्णवे प्रभुम्

॥२८॥

सर्वव्यापिनमव्यक्तमनन्तं विश्वतोमुखम् ।

तस्य पादतलाभ्याशे स्वर्णकेयूरमण्डिताम्

॥२९॥

विश्वरूपां महाभागां विश्वमायावधारिणीम् ।

श्रीमयीं ह्रीमयीं देवीं धीमयीं वाङ्मयीं शिवाम्

॥३०॥

सिद्धिं कीर्तिं रतिं ब्राह्मीं कालरात्रिमयोनिजाम् ।

तामेवाहं तदात्यन्तमीश्वरान्तिकमास्थिताम्

॥३१॥

अद्राक्षं चन्द्रवदनां धृतिं सर्वेश्वरीमुमाम्

॥३२॥

शान्तं प्रसुप्तं नवहेमवर्णमुमासहायं भगवन्तमीशम् ।

तमोवृतं पुण्यतमं वरिष्ठं प्रदक्षिणीकृत्य नमस्करोमि

॥३३॥

ततः प्रसुप्तः सहसा विबुद्धो रात्रिक्षये देववरः स्वभावात् ।

विक्षोभयन् बाहुभिरर्णवाम्भो जगत्प्रणष्टं सलिले विमृश्य

॥३४॥

किं कार्यमित्येव विचिन्तयित्वा वाराहरूपोऽभवदद्भुताङ्गः ।

महाघनाम्भोधरतुल्यवर्चाः प्रलम्बमालाम्बरनिष्कमाली

॥३५॥

सशङ्खचक्रासिधरः किरीटी सवेदवेदाङ्गमयो महात्मा ।

त्रैलोक्यनिर्माणकरः पुराणो देवत्रयीरूपधरश्च कार्ये

॥३६॥

स एव रुद्रः स जगज्जहार सृष्ट्यर्थमीशः प्रपितामहोऽभूत् ।

संरक्षणार्थं जगतः स एव हरिः सुचक्रासिगदाब्जपाणिः

॥३७॥

तेषां विभागो न हि कर्तुमर्हो महात्मनामेकशरीरभाजाम् ।

मीमांसाहेत्वर्थविशेषतर्कैर्यस्तेषु कुर्यात्प्रविभेदमज्ञः

॥३८॥

स याति घोरं नरकं क्रमेण विभागकृद्द्वेषमतिर्दुरात्मा ।

या यस्य भक्तिः स तयैव नूनं देहं त्यजन् स्वं ह्यमृतत्वमेति

॥३९॥

संमोहयन्मूर्तिभिरत्र लोकं स्रष्टा च गोप्ता क्षयकृत्स देवः ।

तस्मान्न मोहात्मकमाविशेत द्वेषं न कुर्यात्प्रविभिन्नमूर्तिः

॥४०॥

वाराहमीशानवरोऽप्यतोऽसौ रूपं समास्थाय जगद्विधाता ।

नष्टे त्रिलोकेऽर्णवतोयमग्ने विमार्गितोयौघमयेऽन्तरात्मा

॥४१॥

भित्त्वार्णवं तोयमथान्तरस्थं विवेश पातालतलं क्षणेन ।

जले निमग्नां धरणीं समस्तां समस्पृशत्पङ्कजपत्रनेत्राम्

॥४२॥

विशीर्णशैलोपलशृङ्गकूटां वसुंधरां तां प्रलये प्रलीनाम् ।

दंष्ट्रैकया विष्णुरतुल्यसाहसः समुद्दधार स्वयमेव देवः

॥४३॥

सा तस्य दंष्ट्राग्रविलम्बिताङ्गी कैलासशृङ्गाग्रगतेव ज्योत्स्ना ।

विभ्राजते साप्यसमानमूर्तिः शशाङ्कशृङ्गे च तडिद्विलग्ना

॥४४॥

तामुज्जहारार्णवतोयमग्नां करी निमग्नामिव हस्तिनीं हठात् ।

नावं विशीर्णामिव तोयमध्यादुदीर्णसत्त्वोऽनुपमप्रभावः

॥४५॥

स तां समुत्तार्य महाजलौघात्समुद्रमार्यो व्यभजत्समस्तम् ।

महार्णवेष्वेव महार्णवाम्भो निक्षेपयामास पुनर्नदीषु

॥४६॥

शीर्णांश्च शैलान्स चकार भूयो द्वीपान्समस्तांश्च तथार्णवांश्च ।

शैलोपलैर्ये विचिताः समन्ताच्छिलोच्चयांस्तान्स चकार कल्पे

॥४७॥

अनेकरूपं प्रविभज्य देहं चकार देवेन्द्रगणान्समस्तान् ।

मुखाच्च वह्निर्मनसश्च चन्द्रश्चक्षोश्च सूर्यः सहसा बभूव

॥४८॥

जज्ञेऽथ तस्येश्वरयोगमूर्तेः प्रध्यायमानस्य सुरेन्द्रसङ्घः ।

वेदाश्च यज्ञाश्च तथैव वर्णास्तथा हि सर्वौषधयो रसाश्च

॥४९॥

जगत्समस्तं मनसा बभूव यत्स्थावरं किंचिदिहाण्डजं वा ।

जरायुजं स्वेदजमुद्भिज्जं वा यत्किंचिदा कीटपिपीलकाद्यम्

॥५०॥

ततो विजज्ञे मनसा क्षणेन अनेकरूपाः सहसा महेशा ।

चकार यन्मूर्तिभिरव्ययात्मा अष्टाभिराविश्य पुनः स तत्र

॥५१॥

लीलां चकाराथ समृद्धतेजा अतोऽत्र मे पश्यत एव विप्राः ।

तेषां मया दर्शनमेव सर्वं यावन्मुहूर्तात्समकारि भूप

॥५२॥

कृत्वा त्वशेषं किल लीलयैव स देवदेवो जगतां विधाता ।

सर्वत्रदृक्सर्वग एव देवो जगाम चादर्शनमादिकर्ता

॥५३॥

यत्तन्मुहूर्तादिह नामरूपं तावत्प्रपश्यामि जगत्तथैव ।

द्वीपैः समुद्रैरभिसंवृतं हि नक्षत्रतारादिविमानकीर्णम्

॥५४॥

वियत्पयोदग्रहचक्रचित्रं नानाविधैः प्राणिगणैर्वृतं च ।

तां वै न पश्यामि महानुभावां गोरूपिणीं सर्वसुरेश्वरीं च

॥५५॥

क्व सांप्रतं सेति विचिन्त्य राजन्विभ्रान्तचित्तस्त्वभवं तदैव ।

दिशो विभागानवलोकयानृते पुनस्तां कथमीश्वराङ्गीम्

॥५६॥

पश्यामि तामत्र पुनश्च शुभ्रां महाभ्रनीलां शुचिशुभ्रतोयाम् ।

वृक्षैरनेकैरुपशोभिताङ्गीं गजैस्तुरङ्गैर्विहगैर्वृतां च

॥५७॥

यथा पुरातीरमुपेत्य देव्याः समास्थितश्चाप्यमरकण्टके तु ।

तथैव पश्यामि सुखोपविष्ट आत्मानमव्यग्रमवाप्तसौख्यम्

॥५८॥

तथैव पुण्या मलतोयवाहां दृष्ट्वा पुनः कल्पपरिक्षयेऽपि ।

अम्बामिवार्यामनुकम्पमानामक्षीणतोयां विरुजां विशोकः

॥५९॥

एवं महत्पुण्यतमं च कल्पं पठन्ति शृण्वन्ति च ये द्विजेन्द्राः ।

महावराहस्य महेश्वरस्य दिने दिने ते विमला भवन्ति

॥६०॥

अशुभशतसहस्रं ते विधूय प्रपन्नास्त्रिदिवममरजुष्टं सिद्धगन्धर्वयुक्तम् ।

विमलशशिनिभाभिः सर्व एवाप्सरोभिः सह विविधविलासैः स्वर्गसौख्यं लभन्ते

॥६१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये वाराहकल्पवृत्तान्तवर्णनं नामैकोनविंशोऽध्यायः ॥