मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४४

3
अवन्तीखण्डः · रेवाखण्डः · 44

शूलभेदप्रशंसावर्णनम्

श्रीमार्कण्डेय उवाच

तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप ।

रेवाया दक्षिणे कूले निर्मितं शूलपाणिना

॥१॥

मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम ।

युधिष्ठिर उवाच - श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च ।

दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम

॥२॥

अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा ।

पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद्यथा

॥३॥

एतदाख्याहि मे सर्वं प्रसादाद्द्विजसत्तम

॥४॥

मार्कण्डेय उवाच

शृणुष्वैकमना भूत्वा तीर्थात्तीर्थान्तरं महत् ।

श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात्

॥५॥

वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः ।

कीर्तनात्तस्य तीर्थस्य मुच्यते सर्वपातकैः

॥६॥

पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते ।

भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम्

॥७॥

रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः ।

तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना

॥८॥

शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते ।

तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम्

॥९॥

पतिता निलयं यान्ति रुद्रस्य नात्र संशयः ।

मृतास्तत्रैव ये केचिज्जन्तवो भुवि पक्षिणः

॥१०॥

ते यान्ति परमं लोकं तत्र तीर्थे न संशयः ।

पातालान्निःसृता गङ्गा भोगवतीतिसंज्ञिता

॥११॥

निष्क्रान्ता शूलभेदाच्च सर्वपापक्षयंकरी ।

या सा गीर्वाणनाम्न्यन्या वहेत्पुण्या महानदी

॥१२॥

पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना ।

शम्भुना च पुरा तात उत्पाद्य च सरस्वती

॥१३॥

सा तत्र पतिता राजन् प्राचीनाघविमोचिनी ।

भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता

॥१४॥

तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति ।

केदारं च प्रयागं च कुरुक्षेत्रं गया तथा

॥१५॥

अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् ।

पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च

॥१६॥

वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् ।

गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम्

॥१७॥

धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् ।

ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च

॥१८॥

यथा गयाशिरः पुण्यं सुराणां च यथा शिला ।

यथा च पुष्करं स्थानं मार्कण्डह्रद एव च

॥१९॥

दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् ।

यस्तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः ।

मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव ।

अनिन्द्यान्पूजयेद्विप्रान् दम्भक्रोधविवर्जितान्

॥२०॥

त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् ।

अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम्

॥२१॥

सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम्

॥२२॥

पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम्

॥२३॥

देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः ।

मार्कण्डेशं ततो भक्त्या पूजयेद्गुहवासिनम्

॥२४॥

मुच्यन्ते पातकैः सर्वैरज्ञानज्ञानसंचितैः ।

गुहामध्ये प्रविष्टस्तु जपेत्सूक्तं तु त्र्यक्षरम्

॥२५॥

नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः ।

त्रिनरास्तत्र तिष्ठन्ति सादित्यमरुतैः सह

॥२६॥

सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् ।

यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम्

॥२७॥

तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् ।

प्रत्यक्षो दृश्यतेऽद्यापि प्रत्ययो ह्यवनीपते

॥२८॥

विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः ।

द्वितीयः प्रत्ययस्तत्र तैलबिन्दुर्न सर्पति

॥२९॥

एवं हि प्रत्ययस्तत्र शूलभेदप्रभावजः ।

यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च

॥३०॥

स पूतश्च भवेत्साक्षात्सबाह्याभ्यन्तरो नृप ।

न कस्यचिन्मया ख्यातं पृष्टोऽहं त्रिदशैरपि

॥३१॥

गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया ।

सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम्

॥३२॥

सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर ।

श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः

॥३३॥

शूलभेदं मया तात संक्षेपात्कथितं तव ।

यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः

॥३४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥