मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७०

3
अवन्तीखण्डः · रेवाखण्डः · 70

रवितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।

रविणा निर्मितं पार्थ सर्वपापक्षयंकरम्

॥१॥

स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे ।

सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः

॥२॥

षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् ।

स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः ।

तस्य पापक्षयः पार्थ सूर्यलोके महीयते

॥३॥

ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ।

धनाढ्यो व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमोऽध्यायः ॥