मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५१

3
अवन्तीखण्डः · रेवाखण्डः · 151

श्रीमार्कण्डेय उवाच - उत्तरे नर्मदाकूले तीर्थं परमशोभनम्

श्रीमार्कण्डेय उवाच

उत्तरे नर्मदाकूले तीर्थं परमशोभनम् ।

जयवाराहमाहात्म्यं सर्वपापप्रणाशनम्

॥१॥

उद्धृता जगती येन सर्वदेवनमस्कृता ।

लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे

॥२॥

तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् ।

मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात्

॥३॥

मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।

रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश

॥४॥

युधिष्ठिर उवाच

मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम ।

वराहेण च किं कर्म नरसिंहेन किं कृतम्

॥५॥

वामनेन च रामेण राघवेण च किं कृतम् ।

बुद्धरूपेण किं वापि कल्किना किं कृतं वद

॥६॥

एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता ।

उवाच मधुरां वाणीं तदा धर्मसुतं प्रति

॥७॥

श्रीमार्कण्डेय उवाच

मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः ।

समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे

॥८॥

अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः ।

मन्दरं धारयामास तथा देवीं वसुंधराम्

॥९॥

उज्जहार धरां मग्नां पातालतलवासिनीम् ।

वाराहं रूपमास्थाय देवदेवो जनार्दनः

॥१०॥

नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा ।

हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः

॥११॥

जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः ।

तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः

॥१२॥

कृतवांश्च बलिं पश्चात्पातालतलवासिनम् ।

स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम्

॥१३॥

जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः ।

क्षत्रियान् पृथिवीपालानवधीद्धैहयादिकान्

॥१४॥

कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् ।

तपस्तपति देवेशो महेन्द्रेऽद्यापि भारत

॥१५॥

ततो दाशरथी रामो रावणं देवकण्टकम् ।

सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे

॥१६॥

पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः ।

स्वर्गं गतो महातेजा रामो राजीवलोचनः

॥१७॥

वसुदेवगृहे भूयः संकर्षणसहायवान् ।

अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर

॥१८॥

सोऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् ।

चाणूरकंसकेशीनां जरासंधस्य भारत

॥१९॥

तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर ।

भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम्

॥२०॥

तथा बुद्धत्वमपरं नवमं प्राप्स्यतेऽच्युतः ।

शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः

॥२१॥

तेन बुद्धस्वरूपेण देवेन परमेष्ठिना ।

भविष्यति जगत्सर्वं मोहितं सचराचरम्

॥२२॥

न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत ।

न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम्

॥२३॥

जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् ।

जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः

॥२४॥

सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति ।

सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर

॥२५॥

द्वादशे दशमे वर्षे नारी गर्भवती भवेत् ।

कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः

॥२६॥

भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः

॥२७॥

एतत्ते कथितं राजन्देवस्य परमेष्ठिनः ।

कारणं दश जन्मनां सर्वपापक्षयंकरम्

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥