मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६७

3
अवन्तीखण्डः · रेवाखण्डः · 167

मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनम्

युधिष्ठिर उवाच

नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् ।

तीर्थमेतन्ममाख्याहि सम्भवं च महामुने

॥१॥

मार्कण्डेय उवाच

पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् ।

विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः

॥२॥

ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् ।

उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी

॥३॥

तानृषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः ।

निवृत्तः सुमहाभाग नर्मदाकूलमागतः

॥४॥

पुण्यं च रमणीयं च सर्वपापविनाशनम् ।

कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः

॥५॥

ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः ।

वानप्रस्थैश्च यतिभिर्यताहारैर्यतात्मभिः

॥६॥

तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः ।

तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम्

॥७॥

आराधयं वासुदेवं प्रभुं कर्तारमीश्वरम् ।

जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः

॥८॥

ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर ।

प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ

॥९॥

प्रणम्याहं ततो देवौ भक्तियुक्तो वचोऽब्रुवम् ।

भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ

॥१०॥

धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् ।

अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् ।

अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम्

॥११॥

एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ ।

मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर

॥१२॥

देवावूचतुः

अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः ।

एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम्

॥१३॥

अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् ।

कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः

॥१४॥

तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत्परमेश्वरम् ।

मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम्

॥१५॥

स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च ।

घृतेन पयसा वाथ दध्ना च मधुना तथा

॥१६॥

नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः ।

पुष्पोपहारैश्च तथा नैवेद्यैर्नियतात्मवान्

॥१७॥

एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः ।

स्नानादीनि तथा राजन्प्रयतः शुचिमानसः

॥१८॥

ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः ।

द्वादश्यां कारयेद्देवपूजनं वैष्णवो नरः

॥१९॥

एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम ।

वैष्णवं लोकमाप्नोति विष्णुतुल्यो भवेन्नरः

॥२०॥

माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे ।

श्राद्धं च कुरुते तत्र पितॄनुद्दिश्य सुस्थिरः

॥२१॥

तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः ।

नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः

॥२२॥

उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् ।

तर्पयित्वा पितॄन्देवान्मनुष्यांश्च यथाविधि

॥२३॥

कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः ।

ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः

॥२४॥

ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् ।

यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत्

॥२५॥

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।

मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा

॥२६॥

रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् ।

लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत्कलशं शिवम्

॥२७॥

रुद्रैकादशभिर्मन्त्रैः स्नापयेत्कलशाम्भसा ।

पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम्

॥२८॥

मार्कण्डेश्वरवृक्षान्यो दूरस्थानपि पश्यति ।

ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करोऽब्रवीत्

॥२९॥

य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम ।

सर्वपापविशुद्धात्मा जायते नात्र संशयः

॥३०॥

इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् ।

पठतां शृण्वतां वापि सर्वपापप्रमोचनम्

॥३१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥