कपिलेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
उत्तरे नर्मदाकूले भृगुक्षेत्रस्य मध्यतः ।
कपिलेश्वरं तु विख्यातं विशेषात्पापनाशनम्
॥१॥योऽसौ सनातनो देवः पुराणे परिपठ्यते ।
वासुदेवो जगन्नाथः कपिलत्वमुपागतः
॥२॥पातालं सुतलं नाम तस्यैव नितलं ह्यधः ।
गभस्तिगं च तस्याधो ह्यन्धतामिस्रमेव च
॥३॥पातालं सप्तमं यच्च ह्यधस्तात्संस्थितं महत् ।
वसते तत्र वै देवः पुराणः परमेश्वरः
॥४॥स ब्रह्मा स महादेवः स देवो गरुडध्वजः ।
पूज्यमानः सुरैः सिद्धैस्तिष्ठते ब्रह्मवादिभिः
॥५॥वसतस्तस्य राजेन्द्र कपिलस्य जगद्गुरोः ।
विनाशं चाग्रतः प्राप्ताः क्षणेन सगरात्मजाः
॥६॥भस्मीभूतांस्तु तान्दृष्ट्वा कपिलो मुनिसत्तमः ।
जगाम परमं शोकं चिन्त्यमानोऽथ किल्बिषम्
॥७॥सर्वसङ्गपरित्यागे चित्ते निर्विषयीकृते ।
अयुक्तं षष्टिसहस्राणां कर्तं मम विनाशनम्
॥८॥कृतस्य करणं नास्ति तस्मात्पापविनाशनम् ।
गत्वा तु कापिलं तीर्थं मोचयाम्यघमात्मनः
॥९॥पातालं तु ततो मुक्त्वा कपिलो मुनिसत्तमः ।
तपश्चचार सुमहन्नर्मदातटमास्थितः
॥१०॥व्रतोपवासैर्विविधैः स्नानदानजपादिकैः ।
परं निर्वाणमापन्नः पूजयन्रुद्रमव्ययम्
॥११॥तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
गोसहस्रफलं तस्य लभते नात्र संशयः
॥१२॥ज्येष्ठमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी ।
तत्र स्नात्वा विधानेन भक्त्या दानं प्रयच्छति
॥१३॥पात्रभूताय विप्राय स्वल्पं वा यदि वा बहु ।
अक्षयं तत्फलं प्रोक्तं शिवेन परमेष्ठिना
॥१४॥अङ्गारकदिने प्राप्ते चतुर्थ्यां नवमीषु च ।
स्नानं करोति पुरुषो भक्त्योपोष्य वराङ्गना
॥१५॥रूपमैश्वर्यमतुलं सौभाग्यं संततिं पराम् ।
लभते सप्तजन्मानि नित्यं नित्यं पुनः पुनः
॥१६॥पौर्णमास्याममावास्यां स्नात्वा पिण्डं प्रयच्छति ।
तस्य ते द्वादशाब्दानि तृप्ता यान्ति सुरालयम्
॥१७॥तत्र तीर्थे तु यो भक्त्या दद्याद्दीपं सुशोभनम् ।
जायते तस्य राजेन्द्र महादीप्तिः शारीरजा
॥१८॥तत्र तीर्थे मृतानां तु जन्तूनां सर्वदा किल ।
अनिवर्तिका भवेत्तेषां गतिस्तु शिवमन्दिरात्
॥१९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ताधिकशततमोऽध्यायः ॥