एरण्डीतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
एरण्डीसङ्गमं गच्छेत्सुरासुरनमस्कृतम् ।
तत्तु तीर्थं महापुण्यं महापातकनाशनम्
॥१॥उपवासपरो भूत्वा नियतेन्द्रियमानसः ।
तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया
॥२॥तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥