मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११८

3
अवन्तीखण्डः · रेवाखण्डः · 118

श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।

इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे

॥१॥

युधिष्ठिर उवाच

नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् ।

श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः

॥२॥

एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः ।

कथयामास तद्वत्तमितिहासं पुरातनम्

॥३॥

श्रीमार्कण्डेय उवाच

विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् ।

वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम्

॥४॥

निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा ।

अहोरात्रमविश्रान्ता जगाम भुवनत्रयम्

॥५॥

यतोयतो ब्रह्महणं याति यानेन शोभनम् ।

दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति

॥६॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः ।

पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम्

॥७॥

पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति ।

नारी वा पुरुषो वापि नैव विश्वासघातिनः

॥८॥

एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् ।

वचनं तद्विधैरुक्तं विषादमगमत्परम्

॥९॥

त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् ।

पुत्रदारगृहं राज्यं वसूनि विविधानि च

॥१०॥

फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् ।

फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः

॥११॥

पश्यतां सर्वमेतेषां पापमेकेन भुज्यते ।

परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम्

॥१२॥

देवराजो जगामासौ तीर्थान्यायतनानि च ।

गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च

॥१३॥

सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् ।

नदीषु देवखातेषु तडागेषु सरःसु च

॥१४॥

पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे ।

रेवाप्रभवतीर्थेषु कूलयोरुभयोरपि

॥१५॥

पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् ।

तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः

॥१६॥

कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः

॥१७॥

आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः ।

एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः

॥१८॥

वत्सराणां सहस्राणि गतानि दश भारत ।

ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम

॥१९॥

सहसा भगवान्देवस्तु तुतोष परमेश्वरः ।

तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः

॥२०॥

तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः ।

दृष्ट्वा समागतान् देवानृषींश्चैव महामतिः

॥२१॥

उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः ।

विदितं सर्वमेतेषां यथा वृत्रवधः कृतः

॥२२॥

युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः ।

तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम्

॥२३॥

भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।

न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम्

॥२४॥

यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् ।

तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति

॥२५॥

कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः ।

बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम्

॥२६॥

ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः ।

एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम्

॥२७॥

दैवतेभ्योऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् ।

एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः

॥२८॥

अवगाह्य ततः पेया आपो वै नान्यथा बुधैः ।

धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः

॥२९॥

अभक्ष्या तेन संजाता सदाकालं वसुंधरा ।

तदार्धमर्द्धं नारीणां द्वितीयेऽह्नि युधिष्ठिर

॥३०॥

निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह ।

असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला

॥३१॥

चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् ।

चतुर्थं तु ततो भागं विभज्य परमेश्वरः

॥३२॥

कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे ।

ततोऽभिनन्दयामासुः सर्वे देवा महर्षयः

॥३३॥

देवेन्द्रं वाग्भिरिष्टाभिर्नर्मदाजलसंस्थितम् ।

वरेण छन्दयामास ततस्तुष्टो महेश्वरः

॥३४॥

वरं दास्यामि देवेश वरं वृणु यथेप्सितम्

॥३५॥

इन्द्र उवाच

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

अत्र संस्थापयिष्यामि सदा संनिहितो भव

॥३६॥

एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः ।

जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः

॥३७॥

गतेषु देवदेवेषु देवराजः शतक्रतुः ।

स्थापयित्वा महादेवं जगाम त्रिदशालयम्

॥३८॥

इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

महापातकयुक्तोऽपि मुच्यते सर्वपातकैः

॥३९॥

इन्द्रतीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।

सोऽश्वमेधस्य यज्ञस्य पुष्कलं फलमश्नुते

॥४०॥

एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।

श्रुतमात्रेण येनैव मुच्यन्ते पातकैर्नराः

॥४१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ॥