श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम…
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम् ।
विख्यातं त्रिषु लोकेषु स्वर्गसोपानमुत्तमम्
॥१॥युधिष्ठिर उवाच
प्रभासं तात मे ब्रूहि कथं जातं महाफलम् ।
स्वर्गसोपानदं दृश्यं संक्षेपात्कथयस्व मे
॥२॥श्रीमार्कण्डेय उवाच
दुर्भगा रविपत्नी च प्रभानामेति विश्रुता ।
तया चाराधितः शम्भुरुग्रेण तपसा पुरा
॥३॥वायुभक्षा स्थिता वर्षं वर्षं ध्यानपरायणा ।
ततस्तुष्टो महादेवः प्रभायाः पाण्डुनन्दन
॥४॥ईश्वर उवाच
कस्मात्संक्लिश्यसे बाले कथ्यतां यद्विवक्षितम् ।
अहं हि भास्करोऽप्येको नानात्वं नैव विद्यते
॥५॥प्रभोवाच
नान्यो देवः स्त्रियः शम्भो विना भर्त्रा क्वचित्प्रभो ।
सगुणो निर्गुणो वापि धनाढ्यो वाप्यकिंचनः
॥६॥प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्तैव दैवतम् ।
दुर्भगत्वेन दग्धाहं सखीमध्ये सुरेश्वर ।
भर्त्तर्यल्लब्धसौख्यास्मि तेन क्लिश्याम्यहं भृशम्
॥७॥ईश्वर उवाच
वल्लभा भास्करस्यैव मत्प्रसादाद्भविष्यसि
॥८॥पार्वत्युवाच
अप्रमाणं भवद्वाक्यं भास्करोऽपि करिष्यति ।
वृथा क्लेशो भवेदस्याः प्रभायाः परमेश्वर
॥९॥उमावाक्यान्महेशानध्यातस्तिमिरनाशनः ।
आगतो गगनाद्भानुर्नर्मदोत्तररोधसि
॥१०॥भानुरुवाच
आहूतोऽस्मि कथं देव ह्यघासुरनिषूदन
॥११॥ईश्वर उवाच
प्रभां पालय भो भानो संतोषेण परेण हि
॥१२॥उमोवाच
प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन ।
अग्रपत्नी समस्तानां भार्याणां क्रियतां रवे
॥१३॥भानुरुवाच
एवं देवि करिष्यामि तव वाक्यं वरानने ।
एतच्छ्रुत्वा प्रभाहूता प्रत्युवाच महेश्वरम्
॥१४॥प्रभोवाच
स्वांशेन स्थीयतां देव मन्मथारे उमापते ।
एकांशः स्थाप्यतामत्र तीर्थस्योन्मीलनाय च
॥१५॥श्रीमार्कण्डेय उवाच
सर्वदेवमयं लिङ्गं स्थापितं तत्र पाण्डव ।
प्रभासेश इति ख्यातं सर्वलोकेषु दुर्लभम्
॥१६॥अन्यानि यानि तीर्थानि काले तानि फलन्ति वै ।
प्रभासेशस्तु राजेन्द्र सद्यः कामफलप्रदः
॥१७॥माघमासे सिते पक्षे सप्तम्यां च विशेषतः ।
अश्वं यः स्पर्शयेत्तत्र यथोक्तब्राह्मणे नृप
॥१८॥इन्द्रत्वं प्राप्यते तेन भास्करस्याथवा पदम् ।
स्नात्वा परमया भक्त्या दानं दद्याद्द्विजातये
॥१९॥गोप्रदाता लभेत्स्वर्गं सत्यलोकं वरेश्वर ।
सर्वाङ्गसुन्दरीं शुभ्रां क्षीरिणीं तरुणीं शुभाम्
॥२०॥सवत्सां घण्टासंयुक्तां कांस्यपात्रावदोहिनीम् ।
ददते ये नृपश्रेष्ठ न ते यान्ति यमालयम्
॥२१॥अथ यः परया भक्त्या स्नानं देवस्य कारयेत् ।
स प्राप्नोति परं लोकं यावदाभूतसम्प्लवम्
॥२२॥दौर्भाग्यं नाशमायाति स्नानमात्रेण पाण्डव ।
तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति
॥२३॥ब्राह्मणाय विवाहेन दापयेत्पाण्डुनन्दन ।
समानवयसे देया कुलशीलधनैस्तथा
॥२४॥ये ददन्ते महाराज ह्यपि पातकसंयुताः ।
तेषां पापानि लीयन्ते ह्युदके लवणं यथा
॥२५॥स्वामिद्रोहकृतं पापं निक्षेपस्यापहारिणि ।
मित्रघ्ने च कृतघ्ने च कूटसाक्ष्यसमुद्भवम्
॥२६॥तद्ग्रामोद्यानभेदोत्थं परदारनिषेवणम् ।
वार्द्धुषिकस्य यत्पापं यत्पापं स्तेयसम्भवम्
॥२७॥कूपभेदोद्भवं यच्च बैडालव्रतधारिणः ।
दाम्भिकं वृक्षच्छेदोत्थं विवाहस्य निषेधजम्
॥२८॥आरामस्थतरुच्छेदमगम्यागमनोद्भवम् ।
स्वभार्यात्यजने यच्च परभार्यासमीहनात्
॥२९॥ब्रह्मस्वहरणे यच्च गरदे गोविघातिनि ।
विद्याविक्रयणोत्थं च संसर्गाद्यच्च पातकम्
॥३०॥श्वबिडालवधाद्घोरं सर्पशूद्रोद्भवं तथा ।
भूमिहर्तुश्च यत्पापं भूमिहारिणि चैव हि
॥३१॥मा ददस्वेति यत्पापं गोवह्निब्राह्मणेषु च ।
तत्पापं याति विलयं कन्यादानेन पाण्डव
॥३२॥स गत्वा भास्करं लोकं रुद्रलोके शुभे व्रजेत् ।
क्रीडते रुद्रलोकस्थो यावदिन्द्राश्चतुर्दश
॥३३॥सर्वपापक्षये जाते शिवे भवति भावना ।
एतद्व्रजति यस्तीर्थं प्रभासं पाण्डुनन्दन
॥३४॥सर्वतीर्थफलं प्राप्य सोऽश्वमेधफलं लभेत् ।
गोप्रदानं महापुण्यं सर्वपापक्षयं परम् ।
प्रशस्तं सर्वकालं हि चतुर्दश्यां विशेषतः
॥३५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे प्रभासतीर्थमाहात्म्यवर्णनं नामाष्टनवतितमोऽध्यायः ॥