मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२१

3
अवन्तीखण्डः · रेवाखण्डः · 221

श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे ।

क्रोशद्वयान्तरे तीर्थं मतृतीर्थादनुत्तमम्

॥१॥

नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् ।

कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः

॥२॥

ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् ।

सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः

॥३॥

अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर ।

दक्षयज्ञप्रमथने कांदिशीको विधिं विना

॥४॥

ब्रह्मणा संसृतोऽप्याशु नायाति स यदा खगः ।

तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात्

॥५॥

ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः ।

पितामहमुपागम्य प्रणिपत्येदमब्रवीत्

॥६॥

हंस उवाच

तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति ।

स्वभाव एव तिर्यक्षु विवेकविकलं मनः

॥७॥

तथापि देव पापोऽस्मि यदहं स्वामिनं त्यजे ।

किं तु धावद्भिरत्युग्रैर्गणैः शार्वैः पितामह ।

सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः

॥८॥

अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः ।

तेन स्मृतोऽपि भवता नाव्रजं भवदन्तिके

॥९॥

श्रीमार्कण्डेय उवाच

इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः ।

तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि

॥१०॥

एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव ।

अहं सृष्टस्त्वीदृशो यत्त्वया वै सोऽयं दोषो धातरद्धा तवैव

॥११॥

शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि ।

सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम्

॥१२॥

विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद्द्युर्निशे च ।

नानाभावाञ्जगतस्त्वं विधत्सेस्तं त्वामेकं शरणं वै प्रपद्ये

॥१३॥

एकोऽसि बहुरूपोऽसि नानाचित्रैककर्मतः ।

निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे

॥१४॥

नमोनमो वरेण्याय वरदाय नमोनमः ।

नमो धात्रे विधात्रे च शरण्याय नमोनमः

॥१५॥

शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो ।

का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे

॥१६॥

श्रीमार्कण्डेय उवाच

एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः ।

शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग

॥१७॥

तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः ।

रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् ।

अचिरेणैव कालेन ततः संस्थानमाप्स्यसि

॥१८॥

यच्चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ।

गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे

॥१९॥

ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद्गुरुतल्पगः ।

रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः

॥२०॥

तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् ।

वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम्

॥२१॥

एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः ।

तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम्

॥२२॥

तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम्

॥२३॥

स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् ।

पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः

॥२४॥

तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर ।

पूजयेत्परमेशानं स पापैः परिमुच्यते

॥२५॥

स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात्क्वचित् ।

श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् ।

दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते

॥२६॥

त्रिकालमेककालं वा यो भक्त्या पूजयेच्छिवम् ।

नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे ।

षष्टिवर्षसहस्राणि शिवलोके महीयते

॥२७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमोऽध्यायः ॥