मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७८

3
अवन्तीखण्डः · रेवाखण्डः · 178

श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् ।

नर्मदायां महापुण्यं भृगुतीर्थसमीपतः

॥१॥

तत्र गङ्गा महापुण्या चचार विपुलं तपः ।

पुरा वर्षशतं साग्रं परमं व्रतमास्थिता

॥२॥

ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् ।

आत्मानं परमं धाम सरित्सा जगतीपते

॥३॥

ततो जनार्दनो देव आगत्येदमुवाच ह

॥४॥

विष्णुरुवाच

तपसा तव तुष्टोऽहं मत्पादाम्बुजसम्भवे ।

मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते

॥५॥

गङ्गोवाच

त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो ।

यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः

॥६॥

नृपो भगीरथस्तस्मात्तपः कृत्वा सुदुष्करम् ।

समाराध्य जगन्नाथं शङ्करं लोकशङ्करम्

॥७॥

अवतारयामास हि मां पृथिव्यां धरणीधर ।

मया वै युवयोर्वाक्यादवतारः कृतो भुवि

॥८॥

वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि ।

ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः

॥९॥

त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः ।

गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः

॥१०॥

अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः ।

ये चानृतप्रवक्तारो ये च विश्वासघातकाः

॥११॥

देवब्राह्मणवित्तानां हर्तारो ये नराधमाः ।

देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः

॥१२॥

ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः ।

भ्रष्टानशनसंन्यासनियतव्रतचारिणः

॥१३॥

तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः ।

निषेधका ये दानानां पात्रदानपराङ्मुखाः

॥१४॥

ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि ।

बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै

॥१५॥

क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः ।

नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः

॥१६॥

अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी ।

कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः

॥१७॥

पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः ।

स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः

॥१८॥

ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः ।

तत्पापक्षारतप्ताया न शर्म मम विद्यते

॥१९॥

तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् ।

एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम्

॥२०॥

विष्णुरुवाच

अहमत्र वसिष्यामि गङ्गाधरसहायवान् ।

प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना

॥२१॥

मम पादतलं प्राप्य वह त्रिपथगामिनि ।

यदा बहूदककाले नर्मदाजलसंभृता

॥२२॥

प्रावृट्कालं समासाद्य भविष्यति जलाकुला ।

प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम्

॥२३॥

प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् ।

तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम्

॥२४॥

न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् ।

अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा

॥२५॥

तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः ।

स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे

॥२६॥

पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् ।

विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे

॥२७॥

तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः ।

शङ्खोद्धारे नरः स्नात्वा तर्पयेत्पितृदेवताः

॥२८॥

तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् ।

गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति

॥२९॥

तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा ।

शङ्खोद्धारे नरः स्नात्वा पूजयेद्बलकेशवौ

॥३०॥

रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि ।

यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम्

॥३१॥

तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय ।

एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत

॥३२॥

तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् ।

ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः

॥३३॥

तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत ।

गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः

॥३४॥

तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।

अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन

॥३५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥