मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १२

3
अवन्तीखण्डः · रेवाखण्डः · 12

नर्मदास्तोत्रकथनम्

श्रीमार्कण्डेय उवाच

एतच्छ्रुत्वा वचो राजन्संहृष्टा ऋषयोऽभवन् ।

नर्मदां स्तोतुमारब्धाः कृताञ्जलिपुटा द्विजाः

॥१॥

नमोऽस्तु ते पुण्यजले नमो मकरगामिनि ।

नमस्ते पापमोचिन्यै नमो देवि वरानने

॥२॥

नमोऽस्तु ते पुण्यजलाश्रये शुभे विशुद्धसत्त्वं सुरसिद्धसेविते ।

नमोऽस्तु ते तीर्थगणैर्निषेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे

॥३॥

नमोऽस्तु ते देवि समुद्रगामिनि नमोऽस्तु ते देवि वरप्रदे शिवे ।

नमोऽस्तु लोकद्वयसौख्यदायिनि ह्यनेकभूतौघसमाश्रितेऽनघे

॥४॥

सरिद्वरे पापहरे विचित्रिते गन्धर्वयक्षोरगसेविताङ्गे ।

सनातनि प्राणिगणानुकम्पिनि मोक्षप्रदे देवि विधेहि शं नः

॥५॥

महागजैर्घमहिषैर्वराहैः संसेविते देवि महोर्मिमाले ।

नताः स्म सर्वे वरदे सुखप्रदे विमोचयास्मान्पशुपाशबन्धात्

॥६॥

पापैरनेकैरशुभैर्विबद्धा भ्रमन्ति तावन्नरकेषु मर्त्याः ।

महानिलोद्भूततरङ्गभूतं यावत्तवाम्भो हि न संस्पृशन्ति

॥७॥

अनेकदुःखौघभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।

गतिस्त्वमम्भोजसमानवक्रे द्वन्द्वैरनेकैरपि संवृतानाम्

॥८॥

नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।

दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि

॥९॥

स्पृष्टं करैश्चन्द्रमसो रवेश्च तदैव दद्यात्परमं पदं तु ।

यत्रोपलाः पुण्यजलाप्लुतास्ते शिवत्वमायान्ति किमत्र चित्रम्

॥१०॥

भ्रमन्ति तावन्नरकेषु मर्त्या दुःखातुराः पापपरीतदेहाः ।

महानिलोद्भूततरङ्गभङ्गं यावत्तवाम्भो न हि संश्रयन्ति

॥११॥

म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽम्भस्तव देवि पुण्यम् ।

मुक्ता भवन्तीह भयात्तु घोरान्निःसंशयं तेऽपि किमत्र चित्रम्

॥१२॥

सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन् हि कलौ प्रदूषिते ।

त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा

॥१३॥

तव प्रसादाद्वरदे वरिष्ठे कालं यथेमं परिपालयित्वा ।

यामोऽथ रुद्रं तव सुप्रसादाद्वयं तथा त्वं कुरु वै प्रसादम्

॥१४॥

गतिस्त्वमम्बेव पितेव पुत्रांस्त्वं पाहि नो यावदिमं युगान्तम् ।

कालं त्वनावृष्टिहतं सुघोरं यावत्तरामस्तव सुप्रसादात्

॥१५॥

पठन्ति ये स्तोत्रमिदं द्विजेन्द्राः शृण्वन्ति ये चापि नराः प्रशान्ताः ।

ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताश्च

॥१६॥

ये स्तोत्रमेतत्सततं पठन्ति स्नात्वा तु तोये खलु नर्मदायाः ।

अन्ते हि तेषां सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति

॥१७॥

प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवं च ।

स मुक्तपापः सुविशुद्धदेहः समाश्रयं याति महेश्वरस्य

॥१८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये नर्मदास्तोत्रकथनं नाम द्वादशोऽध्यायः ॥