मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०८

3
अवन्तीखण्डः · रेवाखण्डः · 208

विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम्

श्रीमार्कण्डेय उवाच

भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् ।

विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम्

॥१॥

तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।

मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत्

॥२॥

इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः ।

पुन्नाम्नो नरकात्पुत्रोऽस्मानयं मोचयिष्यति

॥३॥

पिण्डदानं जलं तात ऋणमुत्तममुच्यते ।

पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम्

॥४॥

अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः ।

इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः

॥५॥

ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु ।

प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा

॥६॥

ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन ।

सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने

॥७॥

ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा ।

तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना ।

पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः

॥८॥

तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि ।

मृतानां सप्त जन्मानि फलमक्षयमश्नुते

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥