श्रीपतिमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्य पुनः पुनः ।
ऊचुर्नारायणं देवं तद्दर्शनसमीहया
॥१॥वसन्तकामाप्सरस ऊचुः
भगवन्भवता योऽयमुपदेशो हितार्थिना ।
प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते
॥२॥यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनान्तरात्मना ।
दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत्
॥३॥तत्रार्थे सर्वभावेन प्रपन्नानां जगत्पते ।
दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी
॥४॥यदि देवापराधेऽपि नास्मासु कुपितं तव ।
नमस्ते जगतामीश दर्शयात्मानमात्मना
॥५॥नारायण उवाच
पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः ।
मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ
॥६॥श्रीमार्कण्डेय उवाच
इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप ।
उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत्
॥७॥ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् ।
आदित्या वसवः साध्या विश्वेदेवा महर्षयः
॥८॥नासत्यदस्रावनिलः सर्वशश्च तथाग्नयः ।
यक्षगन्धर्वसिद्धाश्च पिशाचोरगकिन्नराः
॥९॥समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः ।
मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा
॥१०॥सरीसृपाश्चाथ सूक्ष्मा यच्चान्यज्जीवसंज्ञितम् ।
समुद्राः सकलाः शैलाः सरितः काननानि च
॥११॥द्वीपान्यशेषाणि तथा तथा सर्वसरांसि च ।
नगरग्रामपूर्णा च मेदिनी मेदिनीपते ।
देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः
॥१२॥नक्षत्रग्रहताराभिः सुसम्पूर्णं नभस्तलम् ।
ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वं रूपिणः
॥१३॥ऊर्ध्वं न तिर्यङ्नाधस्ताद्यदान्तस्तस्य दृश्यते ।
तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम्
॥१४॥मदनेन समं सर्वा मधुना च वराङ्गनाः ।
ससाध्वसा भक्तिपराः परं विस्मयमागताः
॥१५॥वसन्तकामाप्सरस ऊचुः
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।
परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम्
॥१६॥महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् ।
त्वत्तो भवत्यच्युते सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन्
॥१७॥द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।
स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी
॥१८॥सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् ।
पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव
॥१९॥ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि ।
समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः
॥२०॥क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रो बलवत्सु वायुः ।
मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि
॥२१॥सर्वानयेष्वच्युत दानवस्त्वं सनत्सजातश्च विवेकवत्सु ।
रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम्
॥२२॥दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे ।
शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम्
॥२३॥बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत ।
पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम्
॥२४॥तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः ।
घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम्
॥२५॥पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः ।
जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः
॥२६॥पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ।
सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः
॥२७॥रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः ।
साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः
॥२८॥वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् ।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम्
॥२९॥अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी ।
इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः
॥३०॥स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।
त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी
॥३१॥त्वत्तोहि सौम्यं जगतीह किंचित्त्वत्तो न रौद्रं च समस्तमूर्ते ।
त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव
॥३२॥प्रसीद सर्वेश्वर सर्वभूत सनातनात्मपरमेश्वरेश ।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व
॥३३॥किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि ।
मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति
॥३४॥न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः ।
तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम्
॥३५॥नमो नमस्ते गोविन्द नारायण जनार्दन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
॥३६॥नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
॥३७॥वरेण्य यज्ञपुरुष प्रजापालन वामन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
॥३८॥नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
॥३९॥संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु
॥४०॥नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।
स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे
॥४१॥उपसंहर विश्वात्मन्रूपमेतत्सनातनम् ।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर
॥४२॥प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम्
॥४३॥न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते ।
सर्वं जगदिऐकस्थं पिण्डितं लक्षयामहे
॥४४॥किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।
माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे
॥४५॥वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः ।
गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते
॥४६॥तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।
छन्दतो जगतामीश तदेतदुपसंहर
॥४७॥मार्कण्डेय उवाच
इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।
दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः
॥४८॥विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ।
तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम्
॥४९॥विस्मयं परमं चक्रुः समस्ता देवयोषितः ।
स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम्
॥५०॥जलमग्निं तथा वायुमाकाशं च विवेश ह ।
काले दिक्ष्वथ सर्वात्म ह्यात्मनश्चान्यथापि च
॥५१॥आत्मरूपस्थितं स्वेन महिम्ना भावयञ्जगत् ।
देवदानवरक्षांसि यक्षीविद्याधरोरगाः
॥५२॥मनुष्यपशुकीटादिमृगपश्वन्तरिक्षगाः ।
येऽन्तरिक्षे तथा भूमौ दिवि ये च जलाश्रयाः
॥५३॥तान्विवेश स विश्वात्मा पुनस्तद्रूपमास्थितः ।
नरेण सार्धं यत्ताभिर्दृष्टपूर्वमरिन्दम
॥५४॥ताः परं विस्मयं जग्मुः सर्वास्त्रिदशयोषितः ।
प्रणेमुः साध्वसात्पाण्डुवदना नृपसत्तम
॥५५॥नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः
॥५६॥नारायण उवाच
नीयतामुर्वशी भद्रा यत्रासौ त्रिदशेश्वरः ।
भवतीनां हितार्थाय सर्वभूतेष्वसाविति
॥५७॥ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ।
तद्गच्छध्वं समस्तोऽयं भूतग्रामो मदंशकः
॥५८॥अहमद्यात्मभूतस्य वासुदेवस्य योगिनः ।
अस्मात्परतरं नास्ति योऽनन्तः परिपथ्यते
॥५९॥तमजं सर्वभूतेशं जानीत परमं पदम् ।
अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये ।
एतत्सर्वमनन्तस्य वासुदेवस्य वै कृतम्
॥६०॥एवं ज्ञात्वा समं सर्वं सदेवासुरमानुषम् ।
सपश्वादिगुणं चैव द्रष्टव्यं त्रिदशाङ्गनाः
॥६१॥मार्कण्डेय उवाच
इत्युक्तास्तेन देवेन समस्तास्ताः सुरस्त्रियः ।
प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव
॥६२॥आदाय चोर्वशीं भूयो देवराजमुपागताः ।
आचख्युश्च यथावृत्तं देवराजाय तत्तथा
॥६३॥मार्कण्डेय उवाच
तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् ।
चिन्तयन्समतां गच्छ समतैव हि मुक्तये
॥६४॥राजन्नेवं विशेषेण भूतेषु परमेश्वरम् ।
वासुदेव कथं दोषांल्लोभादीन्न प्रहास्यसि
॥६५॥सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते ।
तदा वैरादयो भावाः क्रियतां न तु पुत्रक
॥६६॥इति पश्य जगत्सर्वं वासुदेवात्मकं नृप ।
एतदेव हि कृष्णेन रूपमाविष्कृतं नृप
॥६७॥परमेश्वरेति यद्रूपं तदेतत्कथितं तव ।
जन्मादिभावरहितं तद्विष्णोः परमं पदम्
॥६८॥संक्षेपेणाथ भूपाल श्रूयतां यद्वदामि ते ।
यन्मतं पुरुषः कृत्वा परं निर्वाणमृच्छति
॥६९॥सर्वो विष्णुसमासो हि भावाभावौ च तन्मयौ ।
सदसत्सर्वमीशोऽसौ महादेवः परं पदम्
॥७०॥भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम्
॥७१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥