मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६४

3
अवन्तीखण्डः · रेवाखण्डः · 64

अगस्त्येश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।

नराणां पापनाशाय अगस्त्येश्वरमुत्तमम्

॥१॥

तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ।

कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी

॥२॥

घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः ।

एकविंशतिकुलोपेतो च्यवेदैश्वरात्पदात्

॥३॥

धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् ।

भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत्

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥