मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११२

3
अवन्तीखण्डः · रेवाखण्डः · 112

रेवाखण्डेऽग्निरसतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु ।

उत्तरे नर्मदाकूले सर्वपापविनाशनम्

॥१॥

पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः ।

पुत्रहेतोर्युगस्यादौ चचार विपुलं तपः

॥२॥

नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् ।

पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः

॥३॥

द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः ।

वरेण छन्दयामास द्विजमाङ्गिरसं वरम्

॥४॥

वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् ।

वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम्

॥५॥

देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् ।

ब्रह्मलक्ष्म्याः सदावासमक्षयं चाव्ययं सुतम्

॥६॥

तथाभिलषितः पुत्रः सर्वविद्याविशारदः ।

भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः

॥७॥

वरैरङ्गिरसश्चापि बृहस्पतिरजायत ।

यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः

॥८॥

जाते पुत्रेऽङ्गिरास्तत्र स्थापयामास शङ्करम् ।

हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम्

॥९॥

तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् ।

सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति

॥१०॥

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।

इच्छते यश्च यं कामं स तं लभति मानवः

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ॥