सुवर्णशिलातीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपालं सौवर्णशिलमुत्तमम् ।
प्रख्यातमुत्तरे कूले सर्वपापक्षयंकरम्
॥१॥समन्ताच्छतपातेन मुनिसङ्घैः पुरा कृतम् ।
रेवायां दुर्लभं स्थानं सङ्गमस्य समीपतः
॥२॥विभक्तं हस्तमात्रं च पुण्यक्षेत्रं नराधिप ।
सुवर्णशिलके स्नात्वा पूजयित्वा महेश्वरम्
॥३॥नत्वा तु भास्करं देवं होतव्यं च हुताशने ।
बिल्वेनाज्यविमिश्रेण बिल्वपत्रैरथापि वा
॥४॥प्रीयतां मे जगन्नाथो व्याधिर्नश्यतु मे ध्रुवम् ।
द्विजाय काञ्चने दत्ते यत्फलं तच्छृणुष्व मे
॥५॥बहुस्वर्णस्य यत्प्रोक्तं यागस्य फलमुत्तमम् ।
तथासौ लभते सर्वं काञ्चनं यः प्रयच्छति
॥६॥तेन दानेन पूतात्मा मृतः स्वर्गमवाप्नुयात् ।
रुद्रस्यानुचरस्तावद्यावदिन्द्राश्चतुर्दश
॥७॥ततः स्वर्गावतीर्णस्तु जायते विशदे कुले ।
धनधान्यसमोपेतः पुनः स्मरति तज्जलम्
॥८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णशिलातीर्थमाहात्म्यवर्णनं नाम चतुरधिकशततमोऽध्यायः ॥