मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८१

3
अवन्तीखण्डः · रेवाखण्डः · 81

यत्र सिद्धो महादेवो वरुणो नृपसत्तम

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् ।

यत्र सिद्धो महादेवो वरुणो नृपसत्तम

॥१॥

पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः ।

आराध्य गिरिजानाथं ततः सिद्धिं परां गतः

॥२॥

तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः ।

पूजयेच्छङ्करं भक्त्या स याति परमां गतिम्

॥३॥

कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् ।

अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु

॥४॥

यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके ।

तत्फलं समवाप्नोति नात्र कार्या विचारणा

॥५॥

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।

सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम

॥६॥

तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् ।

वरुणस्य पुरे वासो यावदाभूतसंप्लवम्

॥७॥

पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते ।

अन्नदानप्रदो नित्यं जीवेद्वर्षशतं नरः

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वरुणेश्वरतीर्थमाहात्म्यवर्णनं नामैकाशीतितमोऽध्यायः ॥