मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७

3
अवन्तीखण्डः · रेवाखण्डः · 7

कूर्मकल्पसमुद्भवः

श्रीमार्कण्डेय उवाच

पुनरेकार्णवे घोरे नष्टे स्थावरजंगमे ।

सलिलेनाप्लुते लोके निरालोके तमोद्भवे

॥१॥

ब्रह्मैको विचरंस्तत्र तमीभूते महार्णवे ।

दिव्यवर्षसहस्रं तु खद्योत इव रूपवान्

॥२॥

शेते योजनसाहस्रमप्रमेयमनुत्तमम् ।

द्वादशादित्यसंकाशं सहस्रचरणेक्षणम्

॥३॥

प्रसुप्तं चार्णवे घोरे ह्यपश्यत्कूर्मरूपिणम् ।

तं दृष्ट्वा विस्मयापन्नो ब्रह्मा बोधयते शनैः

॥४॥

स्तुतिभिर्मंगलैश्चैव वेदवेदांगसंभवैः ।

वाचस्पते विबुध्यस्व महाभूत नमोऽस्तु ते

॥५॥

तवोदरे जगत्सर्वं तिष्ठते परमेश्वर ।

तद्विमुञ्च महासत्त्व यत्पूर्वं संहृतं त्वया

॥६॥

व्यतीता रजनी ब्राह्मी दिनं समनुवर्तते ।

निरीक्ष्य सर्वलोकेश येन संभवते जगत्

॥७॥

स निशम्य वचस्तस्य उत्थितः परमेश्वरः ।

समुद्गिरन् स लोकांस्त्रीन् ग्रस्तान् कल्पक्षये तदा

॥८॥

देवदानवगन्धर्वाः सयक्षोरगराक्षसाः ।

सचन्द्रार्कग्रहाः सर्वे शरीरात्तस्य निर्गताः

॥९॥

ततो ह्येकार्णवं सर्वं विभज्य परमेश्वरः ।

विस्तीर्णोपलतोयौघां सरित्सरविवर्धिताम्

॥१०॥

पश्यते मेदिनीं देवः सवृक्षौषधिपल्वलाम् ।

हिमवन्तं गिरिश्रेष्ठं श्वेतं पर्वतमुत्तमम्

॥११॥

शृङ्गवन्तं महाशैलं ये चान्ये कुलपर्वताः ।

जंबुद्वीपं कुशं क्रौञ्चं सगोमेदं सशाल्मलम्

॥१२॥

पुष्करान्ताश्च ये द्वीपा ये च सप्तमहार्णवाः ।

लोकालोकं महाशैलं सर्वं च पुरतः स्थितम्

॥१३॥

चतुःप्रकृतिसंयुक्तं जगत्स्थावरजंगमम् ।

युगान्ते तु विनिष्क्रान्तमपश्यत्स महेश्वरः

॥१४॥

विप्रकीर्णशिलाजालामपश्यत्स वसुंधराम् ।

कूर्मपृष्ठोपगां देवीं महार्णवगतां प्रभुः

॥१५॥

तस्मिन् विशीर्णशैलाग्रे सरित्सरोविवर्जिते ।

नानातरंगभिन्नोद आवर्तोद्वर्तसंकुले

॥१६॥

नानौषधिप्रज्वलिते नानोत्पलशिलातले ।

नानाविहंगसंघुष्टां मत्स्यकूर्मसमाकुलाम्

॥१७॥

दिव्यमायामयीं देवीमुत्कृष्टाम्बुदसन्निभाम् ।

नदीमपश्यद्देवेशो ह्यनौपम्यजलाशयाम्

॥१८॥

मध्ये तस्याम्बुदश्यामां पीनोरुजघनस्तनीम् ।

वस्त्रैरनुपमैर्दिव्यैर्नानाभरणभूषिताम्

॥१९॥

सनूपुररवोद्दामां हारकेयूरमण्डिताम् ।

तादृशीं नर्मदां देवीं स्वयं स्त्रीरूपधारिणीम्

॥२०॥

योगमायामयैश्चित्रैर्भूषणैः स्वैर्विभूषिताम् ।

अव्यक्ताङ्गीं महाभागामपश्यत्स तु नर्मदाम्

॥२१॥

अर्धोद्यतभुजां बालां पद्मपत्रायतेक्षणाम् ।

स्तुवन्तीं देवदेवेशमुत्थितां तु जलात्तदा

॥२२॥

विस्मयाविष्टहृदयो ह्यहमुद्वीक्ष्य तां शुभाम् ।

स्नात्वा जले शुभे तस्याः स्तोतुमभ्युद्यतस्ततः

॥२३॥

अर्चयामास संहृष्टो मन्त्रैर्वेदांगसंभवैः ।

सृष्टं च तत्पुरा राजन्पश्येयं सचराचरम्

॥२४॥

सदेवासुरगन्धर्वं सपन्नगमहोरगम् ।

पश्याम्येषा महाभागा नैव याता क्षयं पुरा

॥२५॥

महादेवप्रसादाच्च तच्छरीरसमुद्भवा ।

भूयो भूयो मया दृष्टा कथिता ते नृपोत्तम

॥२६॥

प्रादुर्भावमिमं कौर्म्यं येऽधीयन्ते द्विजोत्तमाः ।

येऽपि शृण्वन्ति विद्वांसो मुच्यन्ते तेऽपि किल्बिषैः

॥२७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कूर्मकल्पसमुद्भवो नाम सप्तमोऽध्यायः ॥