दारुतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः
॥१॥युधिष्ठिर उवाच
कोऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने ।
दारुकेति सुतः कस्य एतन्मे वक्तुमर्हसि
॥२॥श्रीमार्कण्डेय उवाच
भार्गवे विपुले वंशे धीमतो देवशार्मणः ।
दारुर्नाम महाभागो वेदवेदाङ्गपारगः
॥३॥ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् ।
यतिधर्मविधानेन चचार विपुलतपः
॥४॥ध्यायन्वै स महादेवं निराहारो युधिष्ठिर ।
उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम्
॥५॥तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः
॥६॥सत्यवादी जितक्रोधः सर्वभूतहिते रतः ।
सर्वान्कामानवाप्नोति राजन्नत्रैव सवर्था
॥७॥यः कुर्यादुपवासं च सत्यशौचपरायणः ।
सौत्रामणिफलं चास्य सम्भवत्यविचारितम्
॥८॥ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः ।
यजुर्वेदी यजुर्जप्त्वा लभते फलमुत्तमम्
॥९॥प्राणांस्त्यजति यो मर्त्यस्तस्मिंस्तीर्थे विधानतः ।
अनिवर्तिका गतिस्तस्य इत्येवं शङ्करोऽब्रवीत्
॥१०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥