मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०९

3
अवन्तीखण्डः · रेवाखण्डः · 209

भारभूतितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् ।

तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत्

॥१॥

क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।

दानवगन्धर्वैरप्सरोभिश्च सेवितम्

॥२॥

तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः ।

भारेण महता जातो भारभूतिरिति स्मृतः

॥३॥

युधिष्ठिर उवाच

भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् ।

श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे

॥४॥

श्रीमार्कण्डेय उवाच

भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम ।

विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना

॥५॥

आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः ।

विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः

॥६॥

क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा ।

विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम्

॥७॥

ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम ।

पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते

॥८॥

इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम ।

पतन्ति नरके घोरे रौरवे पापमोहिताः

॥९॥

ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।

प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः

॥१०॥

एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे ।

वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः

॥११॥

तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः ।

द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम्

॥१२॥

दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् ।

अभिवादयते विप्रं स्वागतेन च पूजितः

॥१३॥

प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः ।

किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम्

॥१४॥

बटुरुवाच

विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम ।

ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे

॥१५॥

ब्राह्मण उवाच

सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे ।

दानानां परमं दानं कथं विद्या च दीयते

॥१६॥

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।

अथवा विद्यया विद्या भवतीह फलप्रदा

॥१७॥

बटुरुवाच

यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् ।

तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः

॥१८॥

तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने ।

वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन्

॥१९॥

ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः ।

पचनाद्यं बटो कर्म कुरु क्रमत आगतम्

॥२०॥

तथेति चोक्तो देवेशो भारग्राममुपागतः ।

ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत्

॥२१॥

यावदागच्छते विप्रो बटुभिः सह मन्दिरम् ।

अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम्

॥२२॥

एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः ।

क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक्

॥२३॥

दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् ।

धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ

॥२४॥

क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् ।

त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम्

॥२५॥

तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज ।

मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते

॥२६॥

बटुरुवाच

सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः ।

मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा

॥२७॥

बटुरुवाच

दिनशेषेण चास्माकं पञ्चतां च दिने दिने ।

निष्पत्तिं याति वा नेति तदसिद्धमशेषतः

॥२८॥

असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् ।

दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे

॥२९॥

बटुरुवाच

भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः ।

प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत्

॥३०॥

यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः ।

यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि

॥३१॥

अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः ।

गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे

॥३२॥

तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ ।

स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः

॥३३॥

दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने ।

षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक्

॥३४॥

ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः ।

वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते

॥३५॥

साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च ।

प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम्

॥३६॥

प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् ।

द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले

॥३७॥

क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर ।

ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः

॥३८॥

उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः ।

जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो

॥३९॥

तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप ।

गुरोस्तु पश्यतो राजन्धावमाना दिशो दश

॥४०॥

वायुवेगेन देवेन लुञ्जितास्ते समन्ततः ।

भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर

॥४१॥

शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे ।

ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले

॥४२॥

गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् ।

एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः

॥४३॥

यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् ।

एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति

॥४४॥

तदा स्वकीयजीवेन त्वं योजयितुमर्हसि ।

मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः

॥४५॥

ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि ।

द्विजबन्धनमात्रेण नरको भवति ध्रुवम्

॥४६॥

मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम ।

एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः

॥४७॥

भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् ।

मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान्

॥४८॥

लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् ।

मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता

॥४९॥

गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै ।

ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः

॥५०॥

नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना ।

ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः

॥५१॥

अज्ञानेन मया सव यदुक्तं परमेश्वर ।

अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो

॥५२॥

देव उवाच

भगवन्गुरुर्भवान्देवो भवान्मम पितामहः ।

वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः

॥५३॥

जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।

अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः

॥५४॥

एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः ।

तत्र तीर्थे जगामाशु कैलासं धरणीधरम्

॥५५॥

तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् ।

विख्यातं सर्वलोकेषु महापातकनाशनम्

॥५६॥

तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते ।

सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत्

॥५७॥

पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः ।

सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः

॥५८॥

सोमशर्मेति विख्यातो मृतः पृथुललोचनः ।

स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम्

॥५९॥

सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् ।

एकदा तु समं तेन व्यवहारमचिन्तयत्

॥६०॥

सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः ।

भाण्डं बहु समादाय मदीये द्रव्यसाधने

॥६१॥

परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः ।

इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम्

॥६२॥

सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् ।

तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा

॥६३॥

प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च ।

नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः

॥६४॥

नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् ।

दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम्

॥६५॥

शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् ।

एष निद्रावशं यातो मयि प्राणान्निधाय वै

॥६६॥

अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः ।

उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा

॥६७॥

इति निश्चित्य मनसा पापस्तं लवणोदधौ ।

चिक्षेप सोमशर्माणं पापध्यातेन चेतसा

॥६८॥

उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् ।

ततः कतिपयाहोभिः संयुक्तः कालधर्मणा

॥६९॥

गतो यमपुरं घोरं गृहीतो यमकिंकरैः ।

स नीतस्तेन मार्गेण यत्र संतपते रविः

॥७०॥

कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा ।

सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः

॥७१॥

तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः ।

सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत्

॥७२॥

पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् ।

अन्नं पानीयसहितं यावत्तद्दीयते विषम्

॥७३॥

छायां संप्रार्थमानानां भृशं ज्वलति पावकः ।

तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः

॥७४॥

हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः ।

इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः

॥७५॥

यत्र तिष्ठति देवेशः प्रजासंयमनो यमः ।

ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः

॥७६॥

बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् ।

अवधारय देवेश बुध्यस्व यदनन्तरम्

॥७७॥

यम उवाच

न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् ।

ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत्

॥७८॥

ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः ।

ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम्

॥७९॥

इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः ।

मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया

॥८०॥

द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् ।

विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति

॥८१॥

मुनय ऊचुः

अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् ।

कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम्

॥८२॥

ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् ।

आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः

॥८३॥

आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि ।

पुराणानि च मीमांसा दृष्टमस्माभिरत्र च

॥८४॥

ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे ।

निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः

॥८५॥

ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः ।

विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः

॥८६॥

वापीकूपतडागानां भेत्तारो ये च पापिनः ।

उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः

॥८७॥

दावाग्निदाहका ये च सततं येऽसुहिंसकाः ।

न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः

॥८८॥

मातापितृगुरूणां च त्यागिनो दोषदायिनः ।

स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी

॥८९॥

विवेकरहिता या स्त्री यास्नाता भोजने रता ।

द्विकालभोजनरतास्तथा वैष्णववासरे

॥९०॥

तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् ।

विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा

॥९१॥

तेषां गतिर्न वेदेषु पुराणेषु च का कथा ।

इति स्थितेषु पापेषु गतिरेषां न विद्यते

॥९२॥

नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् ।

इतो नीत्वा यमदूता एनं विश्वस्तघातिनम्

॥९३॥

कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् ।

नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया

॥९४॥

क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् ।

इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च

॥९५॥

यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः ।

ते तमादाय हि नरके घोरे रौरवसंज्ञिते

॥९६॥

चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् ।

नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत्

॥९७॥

अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् ।

यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः

॥९८॥

भवति स्पर्शनात्तस्य किमेतेन कृतामलम् ।

यथा दुर्जनसंसर्गात्सुजनो याति लाघवम्

॥९९॥

सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् ।

प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः

॥१००॥

एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति ।

तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः

॥१०१॥

एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले ।

नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः

॥१०२॥

यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ ।

गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः ।

नरके न स्थितिर्यस्य तस्य किं क्रियतां वद

॥१०३॥

यम उवाच

पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् ।

कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम्

॥१०४॥

एवमुक्ते तु वचने प्रजासंयमनेन च ।

स गतः कृमितां पापो विष्ठासु च पृथक्पृथक्

॥१०५॥

ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् ।

यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः

॥१०६॥

स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् ।

सरीसृपानजगरवराहमृगहस्तिनः

॥१०७॥

वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् ।

योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम्

॥१०८॥

एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै ।

स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः

॥१०९॥

स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः ।

स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः

॥११०॥

पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् ।

न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम्

॥१११॥

समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः ।

यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः

॥११२॥

संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः ।

तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम्

॥११३॥

सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः ।

एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः

॥११४॥

ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे ।

भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम

॥११५॥

तत्र यामो वयं सर्वे सर्वपापक्षयावहम् ।

एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु

॥११६॥

शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः ।

यः कृत्वा मित्रहननं गोयोनिं समुपागतः

॥११७॥

इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् ।

गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः

॥११८॥

गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् ।

शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम्

॥११९॥

उद्धृतासि वराहेण रुद्रेण शतबाहुना ।

अहमप्युद्धरिष्यामि प्रजया बन्धनेन च

॥१२०॥

स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे ।

ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत्

॥१२१॥

अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे ।

मृत्तिके हर मे पापं जन्मकोटिशतार्जितम्

॥१२२॥

तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् ।

त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम्

॥१२३॥

स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् ।

स स्नात्वानेन विधिना संतर्प्य पितृदेवताः

॥१२४॥

ययौ देवालयं पश्चादुपहारैः समन्वितः ।

भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम्

॥१२५॥

पुराणोक्तविधानेन पूजां समुपचक्रमे ।

पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते

॥१२६॥

संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् ।

घृतेन पूरणं पश्चात्कृतं नृपवरेण तु

॥१२७॥

धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि ।

अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम्

॥१२८॥

नमस्ते देवदेवेश शम्भो परमकारण ।

गृहाणार्घमिमं देव संसाराघमपाकुरु

॥१२९॥

वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् ।

अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात्

॥१३०॥

अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः ।

तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः

॥१३१॥

अनेन विधिना तेन पूजितः प्रथमे शिवः ।

यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत्

॥१३२॥

स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् ।

तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः

॥१३३॥

कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् ।

श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम्

॥१३४॥

प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा ।

यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः

॥१३५॥

देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः ।

तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन्

॥१३६॥

तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः ।

तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम

॥१३७॥

अनेन विधिना राजा यामिनीयामपूजनम् ।

अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम्

॥१३८॥

चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् ।

ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः

॥१३९॥

ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः ।

पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि

॥१४०॥

हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् ।

यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम्

॥१४१॥

निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् ।

उपवासपराणां च देवायतनवासिनाम्

॥१४२॥

शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ ।

न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः

॥१४३॥

शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः ।

रेवाया उत्तरं कूलं तीरं भारेश्वरेति च

॥१४४॥

जागृतश्चातिदुःखेन कथं पापं न हास्यति ।

इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः

॥१४५॥

प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् ।

स्नापितास्तेन ते सर्वे वाहनानि गजादयः

॥१४६॥

यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् ।

तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक्

॥१४७॥

दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः ।

तेन वाहकृताद्दोषान्मुक्तो भवति मानवः

॥१४८॥

अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति ।

संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः

॥१४९॥

संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि ।

कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम्

॥१५०॥

गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च ।

संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च

॥१५१॥

सर्वौषधिजलेनैव ततः शुद्धोदकेन च ।

चन्दनेन सुगन्धेन समालभ्य च शङ्करम्

॥१५२॥

कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा ।

पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम्

॥१५३॥

कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् ।

गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा

॥१५४॥

धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता ।

अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर

॥१५५॥

धेनुं स्वलंकृतां दद्यादनेन विधिना ततः ।

क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून्

॥१५६॥

षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् ।

दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत्

॥१५७॥

स स्वयं बुभुजे पश्चात्परिवारसमन्वितः ।

तामेव रजनीं तत्र न्यवसज्जगतीपतिः

॥१५८॥

तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर ।

आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम्

॥१५९॥

वागुवाच

राजन्समं ततो लोके फलं भवति साम्प्रतम् ।

संसारसागरे ह्यत्र पतितानां दुरात्मनाम्

॥१६०॥

यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् ।

यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत्

॥१६१॥

य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः ।

अनेन मित्रहननं पापं विश्वासघातनम्

॥१६२॥

कृतं जन्मसहस्राणामतीते परिजन्मनि ।

गतेन पाप्मनात्मानं नरकेषु च संस्थितिः

॥१६३॥

ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि ।

गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः

॥१६४॥

स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे ।

दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया

॥१६५॥

तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः ।

स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति

॥१६६॥

श्रीमार्कण्डेय उवाच

एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत ।

विमानवरमारूढस्तत्क्षणात्समदृश्यत

॥१६७॥

स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव

॥१६८॥

वृष उवाच

भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् ।

यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः ।

मया ज्ञातमशेषेण मत्समो नास्ति पातकी

॥१६९॥

अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् ।

भवान्माता भवन्भ्राता भवांश्चैव पितामहः

॥१७०॥

क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः ।

गतिमीदृग्विधां यान्ति न जाने तव का गतिः

॥१७१॥

समाराध्य महेशानं सम्पूज्य च यथाविधि ।

का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो

॥१७२॥

त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः ।

स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात्

॥१७३॥

श्रीमार्कण्डेय उवाच

गते चादर्शनं तत्र स राजा विस्मयान्वितः ।

तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः

॥१७४॥

इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् ।

सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम्

॥१७५॥

उपपापानि नश्यन्ति स्नानमात्रेण भारत ।

कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः

॥१७६॥

चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु ।

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः

॥१७७॥

महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् ।

सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम्

॥१७८॥

कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः ।

स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम्

॥१७९॥

अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् ।

दीपं पिष्टमयं कृत्वा पितॄन् सर्वान् विमोक्षयेत्

॥१८०॥

तत्र यद्दीयते दानमपि वालाग्रमात्रकम् ।

तदक्षयफलं सर्वमेवमाह महेश्वरः

॥१८१॥

भारभूत्यां मृतानां तु नराणां भावितात्मनाम् ।

अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम्

॥१८२॥

अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति ।

साङ्गवेदज्ञविप्राणां जायते विमले कुले

॥१८३॥

धनधान्यसमायुक्तो वेदविद्यासमन्वितः ।

सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम्

॥१८४॥

पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात्

॥१८५॥

एतत्पुण्यं पापहरं कथितं ते नृपोत्तम ।

भारतेदं महाख्यानं शृणु चैव ततः परम्

॥१८६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥