मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २५

3
अवन्तीखण्डः · रेवाखण्डः · 25

सङ्गममाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ओंकारात्पूर्वभागे वै सङ्गमो लोकविश्रुतः ।

रेवया संगता यत्र नीलगङ्गा नृपोत्तम

॥१॥

तत्र स्नात्वा जपित्वा च कोऽर्थोऽलभ्यो भवेद्भुवि ।

षष्टिर्वर्षसहस्राणि नीलकण्ठपुरे वसेत्

॥२॥

तर्पयित्वा पितॄञ्श्राद्धे तिलमिश्रैर्जलैरपि ।

उद्धरेदात्मना सार्धं पुरुषानेकविंशतिम्

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नीलगङ्गायाः सङ्गममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥