मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०२

3
अवन्तीखण्डः · रेवाखण्डः · 202

शिखितीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् ।

प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम्

॥१॥

तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः ।

शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम्

॥२॥

प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप ।

तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले

॥३॥

देवानृषीन् पित्ःंश्चान्यांस्तर्पयेत्तिलवारिणा ।

हिरण्यं ब्राह्मणे दद्यात्संतर्प्य च हुताशनम्

॥४॥

गन्धमाल्यैस्तथा धूपैस्ततः सम्पूजयेच्छिवम् ।

अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम्

॥५॥

विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः ।

गीयमानस्तु गन्धर्वैर्रुद्रलोकं स गच्छति

॥६॥

शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि

॥७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ॥