मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३२

3
अवन्तीखण्डः · रेवाखण्डः · 132

आदिवाराहतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे ।

सर्वपापहरं तीर्थं वाराहं नाम नामतः

॥१॥

तत्र देवो जगद्धाता वाराहं रूपमास्थितः ।

स्थितो लोकहितार्थाय संसारार्णवतारकः

॥२॥

तत्र तीर्थे तु यः स्नात्वा पूजयेद्धरणीधरम् ।

गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः

॥३॥

उपवासपरो भूत्वा द्वादश्यां नृपसत्तम ।

वृषलाः पापकर्माणस्तथैवान्धपिशाचिनः

॥४॥

आलापाद्गात्रसंपर्कान्निःश्वासात्सहभोजनात् ।

पापं संक्रमते यस्मात्तस्मात्तान् परिवर्जयेत्

॥५॥

ब्राह्मणान् पूजयेद्भक्त्या यथाशक्त्या यथाविधि ।

रात्रौ जागरणं कार्यं कथायां तत्र भारत

॥६॥

प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् ।

ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः

॥७॥

यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः ।

नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु

॥८॥

नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव ।

नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य

॥९॥

किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः

॥१०॥

एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।

दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय

॥११॥

ध्यायमाना महात्मानो रूपं नारायणं हरेः ।

ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः

॥१२॥

ते गच्छन्त्यमलं स्थानं यत्सुरैरपि दुर्लभम् ।

क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम्

॥१३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदिवाराहतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥