श्रीमार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् ।
दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम्
॥१॥दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद्द्विजे दधि ।
उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत
॥२॥न व्याधिर्न जरा तस्य न शोको नैव मत्सरः ।
दशचन्द्रशतं यावज्जायते विमले कुले
॥३॥मधुस्कन्देऽपि मधुना मिश्रितान्यस्तिलान्ददेत् ।
नासौ वैवस्वतं देवं पश्येद्वै जन्मसप्ततिम्
॥४॥मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते
॥५॥दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः
॥६॥पिता पितामहश्चैव तथैव प्रपितामहः ।
द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा
॥७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दमधुस्कन्दतीर्थमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥