मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१

3
अवन्तीखण्डः · रेवाखण्डः · 21

भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत

युधिष्ठिर उवाच

श्रुतं मे विविधाश्चर्यं त्वत्प्रसादाद्द्विजोत्तम ।

भूयश्च श्रोतुमिच्छामि तन्मे कथय सुव्रत

॥१॥

कथमेषा नदी पुण्या सर्वनदीषु चोत्तमा ।

नर्मदा नाम विख्याता भूयो मे कथयानघ

॥२॥

श्रीमार्कण्डेय उवाच

नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।

तारयेत्सर्वभूतानि स्थावराणि चराणि च

॥३॥

नर्मदायास्तु माहात्म्यं यत्पूर्वेण मया श्रुतम् ।

तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप

॥४॥

गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा

॥५॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।

सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम्

॥६॥

कलिङ्गदेशात्पश्चार्धे पर्वतेऽमरकण्टके ।

पुण्या च त्रिषु लोकेषु रमणीया पदे पदे

॥७॥

तत्र देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।

तपस्तप्त्वा महाराज सिद्धिं परमिकां गताः

॥८॥

तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः ।

उपोष्य रजनीमेकां कुलानां तारयेच्छतम्

॥९॥

सिद्धिक्षेत्रं परं तात पर्वतो ह्यमरंकटः ।

सर्वदेवाश्रितो यस्मादृषिभिः परिसेवितः

॥१०॥

सिद्धविद्याधरा भूतगन्धर्वाः स्थानमुत्तमम् ।

दृश्यादृश्याश्च राजेन्द्र सेवन्ते सिद्धिकाङ्क्षिणः

॥११॥

अहं च परमं स्थानं ततः प्रभृति संश्रितः ।

अत्र प्रणवरूपो वै स्थाने तिष्ठत्युमापतिः

॥१२॥

श्रीकण्ठः सगणः सर्वभूतसङ्घैर्निषेवितः ।

अस्माद्गिरिवराद्भूप वक्ष्ये तीर्थस्य विस्तरम्

॥१३॥

यानि सन्तीह तीर्थानि पुण्यानि नृपसत्तम ।

यानि यानीह तीर्थानि नर्मदायास्तटद्वये

॥१४॥

न तेषां विस्तरं वक्तुं शक्तो ब्रह्मापि भूपते ।

योजनानां शतं साग्रं श्रूयते सरिदुत्तमा

॥१५॥

विस्तरेण तु राजेन्द्र अर्धयोजनमायता ।

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च

॥१६॥

पर्वतादुदधिं यावदुभे कूले न संशयः

॥१७॥

सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।

सप्तषष्टिस्तथा कोट्यो वायुस्तीर्थानि चाब्रवीत्

॥१८॥

परं कृतयुगे तानि यान्ति प्रत्यक्षतां नृप ।

पश्यन्ति मानवाः सर्वे सततं धर्मबुद्धयः

॥१९॥

यथायथा कलिर्घोरो वर्तते दारुणो नृप ।

तथातथाल्पतां यान्ति हीनसत्त्वा यतो नराः

॥२०॥

जालेश्वरादितीर्थानि पर्वतेऽस्मिन्नराधिप ।

पितृतृप्तिप्रदान्याहुः स्वर्गमोक्षप्रदानि च

॥२१॥

श्रेष्ठं दारुवनं तत्र चरुकासंगमः शुभः ।

उत्तरे नर्मदायास्तु चरुकेश्वरमुत्तमम्

॥२२॥

दारुकेश्वरतीर्थं च व्यतीपातेश्वरं तथा ।

पातालेश्वरतीर्थं च कोटियज्ञं तथैव च

॥२३॥

इति चैवोत्तरे कूले रेवाया नृपसत्तम ।

अमरेश्वरपार्श्वे च लिङ्गान्यष्टोत्तरं शतम्

॥२४॥

वरुणेश्वरमुख्यानि सर्वपापहराणि च

॥२५॥

मान्धातृपुरपार्श्वे च सिद्धेश्वरयमेश्वरौ ।

ओङ्कारात्पूर्वभागे च केदारं तीर्थमुत्तमम्

॥२६॥

तत्समीपे महाराज स्वर्गद्वारमघापहम् ।

नाम्ना ब्रह्मेश्वरं पुण्यं सप्तसारस्वतं पुरः

॥२७॥

रुद्राष्टकं च सावित्रं सोमतीर्थं तथैव च ।

एतानि दक्षिणे तीरे रेवाया भरतर्षभ

॥२८॥

अस्मिंस्तु पर्वते तात रुद्राणां कोटयः स्थिताः ।

स्नानैस्तुष्टिर्भवेत्तेषां गन्धमाल्यानुलेपनैः

॥२९॥

प्रीतास्तेऽपि भवन्त्यत्र रुद्रा राजन्न संशयः ।

जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते

॥३०॥

दानेन भोगानाप्नोति इत्येवं शङ्करोऽब्रवीत् ।

पर्वतात्पश्चिमे देशे स्वयं देवो महेश्वरः ।

स्थितः प्रणवरूपोऽसौ जगदादिः सनातनः

॥३१॥

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।

पितृकार्यं प्रकुर्वीत विधिदृष्टेन कर्मणा

॥३२॥

तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः ।

आ सप्तमं कुलं तस्य स्वर्गे मोदति पाण्डव

॥३३॥

आत्मना सह भोगांश्च विविधान् लभते सुखी ।

षष्टिवर्षसहस्राणि क्रीडते सुरपूजितः

॥३४॥

मोदते सुचिरं कालं पितृपूजाफलधितः ।

ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले

॥३५॥

धनवान्दानशीलश्च नीरोगो लोकपूजितः ।

पुनः स्मरति तत्तीर्थं गमनं कुरुते पुनः

॥३६॥

द्वितीये जन्मनि भवेद्ध्रदस्यानुचरोत्कटः ।

तथैव ब्रह्मचर्येण सोपवासो जितेन्द्रियः

॥३७॥

सर्वहिंसानिवृत्तस्तु लभते फलमुत्तमम् ।

एवं धर्मसमाचारो यस्तु प्राणान्परित्यजेत्

॥३८॥

तस्य पुण्यफलं यद्वै तन्निबोध नराधिप ।

शतं वर्षसहस्राणि स्वर्गे मोदति पाण्डव

॥३९॥

अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।

दिव्यगन्धानुलिप्ताङ्गो दिव्यालङ्कारभूषितः

॥४०॥

क्रीडते दैवतैः सार्द्धं सिद्धगन्धर्वसंस्तुतः ।

ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्

॥४१॥

हस्त्यश्वरथयानैश्च धर्मज्ञः शास्त्रतत्परः ।

गृहे स्तम्भशताकीर्णे सौवर्णे रजतान्विते

॥४२॥

सप्ताष्टभूमिसुद्वारे दासीदाससमाकुले ।

मत्तमातङ्गनिःश्वासैर्वाजिहेषितनादितैः

॥४३॥

क्षुभ्यते तस्य तद्द्वारमिन्द्रस्य भुवनं यथा ।

राजराजेश्वरः श्रीमान्सर्वस्त्रीजनवल्लभः

॥४४॥

तस्मिन्गृहे वसित्वा तु क्रीडाभोगसमन्वितः ।

जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः

॥४५॥

एवं तेषां भवेत्सर्वं ये मृता ह्यमरेश्वरे ।

अग्निप्रवेशं यः कुर्याद्भक्त्या ह्यमरकण्टके

॥४६॥

स मृतः स्वर्गमाप्नोति यास्यते परमां गतिम् ।

स्नानं दानं जपो होमः शुभं वा यदि वाशुभम्

॥४७॥

पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत् ।

तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्यये

॥४८॥

नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ।

अनिवृत्तिका गतिस्तस्य पवनस्याम्बरे यथा

॥४९॥

पतनं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप ।

कन्यास्त्रीणि सहस्राणि पाताले भोगभागिनः

॥५०॥

तिष्ठन्ति भवने तस्य प्रेषणे प्रार्थयन्ति च ।

दिव्यभोगैः सुसम्पन्नः क्रीडते कालम्

॥५१॥

पृथिव्यां ह्यासमुद्रायां तादृशो नैव जायते ।

यादृशोऽयं नरश्रेष्ठ पर्वतोऽमरकण्टकः

॥५२॥

तत्र तीर्थं तु विज्ञेयं पर्वतस्यानु पश्चिमे ।

ह्रदो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः

॥५३॥

तत्र पिण्डप्रदानेन सन्ध्योपासनकेन तु ।

पितरो द्वादशाब्दानि तर्पितास्तु भवन्ति वै

॥५४॥

दक्षिणे नर्मदातीरे कपिला तु महानदी ।

सरलार्जुनसंछन्ना खदिरैरुपशोभिता

॥५५॥

माधवीसल्लकीभिश्च वल्लीभिश्चाप्यलंकृता ।

श्वापदैर्गर्जमानैश्च गोमायुवानरादिभिः

॥५६॥

पक्षिजातिविशेषैश्च नित्यं प्रमुदिता नृप ।

साग्रं कोटिशतं तत्र ऋषीणामिति शुश्रुम

॥५७॥

तपस्तप्त्वा गतं मोक्षं येषां जन्म न चागमः ।

येन तत्र तपस्तप्तं कपिलेन महात्मना

॥५८॥

तत्र तच्चाभवत्तीर्थं पुण्यं सिद्धनिषेवितम् ।

येन सा कापिलैस्तात सेविता ऋषिभिः पुरा

॥५९॥

तेन सा कपिला नाम गीता पापक्षयंकरी ।

तत्र कोटिशतं साग्रं तीर्थानाममरेश्वरे

॥६०॥

अहोरात्रोषितो भूत्वा मुच्यते सर्वकिल्बिषैः ।

दानं च विधिवद्दत्त्वा यथाशक्त्या द्विजोत्तमे

॥६१॥

ईश्वरानुग्रहात्सर्वं तत्र कोटिगुणं भवेत् ।

यस्मादनक्षरं रूपं प्रणवस्येह भारत

॥६२॥

शिवस्वरूपस्य ततः कृतमात्राक्षरं भवेत् ।

तिर्यञ्चः पशवश्चैव वृक्षा गुल्मलतादयः

॥६३॥

तेऽपि तत्र क्षयं याताः स्वर्गं यान्ति न संशयः ।

विशल्या तत्र या प्रोक्ता तत्रैव तु महानदी

॥६४॥

स्नात्वा दत्त्वा यथान्यायं तत्रापि सुकृती भवेत् ।

तत्र देवगणाः सर्वे सकिन्नरमहोरगाः

॥६५॥

यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः ।

सर्वे समागतास्तां वै पश्यन्ति ह्यमरेश्वरे

॥६६॥

तैश्च सर्वैः समागम्य वन्दितौ तौ शुभौ कटौ ।

पुरा युगे महाघोरे सर्वलोकभयंकरे

॥६७॥

नर्मदायाः सुतस्तत्र सशल्यो विशलीकृतः ।

सर्वदेवैश्च ऋषिभिर्विशल्या तेन सा स्मृता

॥६८॥

युधिष्ठिर उवाच

उत्पन्ना तु कथं तात विशल्या कपिला कथम् ।

कथं वा नर्मदापुत्रः शल्ययुक्तोऽभवन्मुने

॥६९॥

आश्चर्यभूतं लोकस्य श्रोतुमिच्छामि सुव्रत

॥७०॥

श्रीमार्कण्डेय उवाच

पुरा दाक्षायणी नाम सहिता शूलपाणिना ।

क्रीडित्वा नर्मदातोये परया च मुदा नृप

॥७१॥

जलादुत्तीर्य सहसा वस्त्रमन्यत्समाहरत् ।

देव्यास्तु स्नानवस्त्रं तत्पीडितं लीलया नृप

॥७२॥

सहितानुचरीभिस्तु इन्द्रायुधनिभं भृशम् ।

तस्मिन्निष्पीड्यमाने तु वारि यन्निःसृतं तदा

॥७३॥

तस्मादियं सरिज्जज्ञे कपिलाख्या महानदी ।

संयोगादङ्गरागस्य वस्त्रोद्यत्कपिलं जलम्

॥७४॥

गलितं तेन कपिला वर्णतो नामतोऽभवत् ।

तथा गन्धरसैर्युक्तं नानापुष्पैस्तु वासितम्

॥७५॥

नानावर्णारुणं शुभ्रं वस्त्राद्यद्वारि निःसृतम् ।

पीड्यमानं करैः शुभ्रैस्तैस्तु पल्लवकोमलैः

॥७६॥

कपिलं जलमिश्रैस्तु तस्मादेषा सरिद्वरा ।

कपिला चोच्यते तज्ज्ञैः पुराणार्थविशारदैः

॥७७॥

एषा वै वस्त्रसम्भूता नर्मदातोयसम्भवा ।

महापुण्यतमा ज्ञेया कपिला सरिदुत्तमा

॥७८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कपिलासरित्सम्भववर्णनं नामैकविंशोऽध्यायः ॥