मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १४६

3
अवन्तीखण्डः · रेवाखण्डः · 146

अस्माहकतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

अस्माहकं ततो गच्छेत्पितृतीर्थमनुत्तमम् ।

प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः

॥१॥

युधिष्ठिर उवाच

अस्माहकस्य माहात्म्यं कथयस्व ममानघ ।

स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च

॥२॥

श्रीमार्कण्डेय उवाच

पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे ।

प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि

॥३॥

एकत्र सागराः सप्त सप्रयागाः सपुष्कराः ।

नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा

॥४॥

सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् ।

तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः

॥५॥

मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् ।

कश्चिदस्मत्कुलेऽस्माकं पिण्डमत्र प्रदास्यति

॥६॥

प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी ।

एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः

॥७॥

सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् ।

द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम्

॥८॥

युगे युगे महाराज अस्माहके पितामहाः ।

सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम्

॥९॥

भविष्यति किमस्माकममावास्याप्यमाहके ।

स्नानं दानं च ये कुर्युः पितॄणां तिलतर्पणम्

॥१०॥

ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै ।

जलमध्येऽत्र भूपाल अग्नितीर्थं च तिष्ठति

॥११॥

दर्शनात्तस्य तीर्थस्य पापराशिर्विलीयते ।

स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति

॥१२॥

शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः ।

एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ

॥१३॥

सुवर्णालंकृतानां तु कन्यानां शतदानजम् ।

फलमाप्नोति सम्पूर्णं पितृलोके महीयते

॥१४॥

पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ।

धनधान्यसमायुक्तो दाता भवति धार्मिकः

॥१५॥

उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् ।

अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत्

॥१६॥

कोटिवर्षसहस्राणि रुद्रलोके महीयते ।

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः

॥१७॥

सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् ।

कृत्वाभिषेकविधिना हयमेधफलं लभेत्

॥१८॥

धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।

चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम्

॥१९॥

तत्फलं लभते नूनं तत्र तीर्थेऽभिषेचनात् ।

तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा

॥२०॥

हृदयेशः स्वयं विष्णुर्जपेद्देवं महेश्वरम् ।

गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा

॥२१॥

विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः ।

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः

॥२२॥

प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ।

च्यवनो गालवश्चैव वामदेवो महामुनिः

॥२३॥

वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः ।

उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः

॥२४॥

शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा ।

अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः

॥२५॥

गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः ।

सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा

॥२६॥

अन्येऽपि बहवस्तत्र मुनयः शंसितव्रताः ।

क्रीडन्ति देवताः सर्व ऋषयः सतपोधनाः

॥२७॥

मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः ।

अस्माहकेऽत्र तिष्ठन्ति सर्व एव न संशयः

॥२८॥

पितरः पितामहाश्चैव तथैव प्रपितामहाः ।

येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम्

॥२९॥

अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे ।

मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान्

॥३०॥

धनं धान्यं प्रियान्पुत्रांस्तथा देहं नृपोत्तम ।

गच्छते वायुभूतस्तु शुभाशुभसमन्वितः

॥३१॥

अदृश्यः सर्वभूतानां परमात्मा महत्तरः ।

शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव

॥३२॥

युधिष्ठिर उवाच

शुभाशुभं न बन्धूनां जायते केन हेतुना ।

एकः प्रसूयते जन्तुरेक एव प्रलीयते

॥३३॥

एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम्

॥३४॥

मार्कण्डेय उवाच

एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया

॥३५॥

पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् ।

यन्मे पितामहात्पूर्वं विज्ञातमृषिसंसदि

॥३६॥

न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् ।

कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः

॥३७॥

यद्येवं न भवेत्तात लोकस्य तु नरेश्वर ।

अमर्यादं भवेन्नूनं विनश्यति चराचरम्

॥३८॥

एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः ।

मर्यादा स्थापिता लोके यथा धर्मो न नश्यति

॥३९॥

धर्मे नष्टे मनुष्याणामधर्मोऽभिभवेत्पुनः ।

ततः स्वधर्मचलनान्नरके गमनं ध्रुवम्

॥४०॥

लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः ।

मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः

॥४१॥

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।

पिण्डोदकप्रदानं च तथैवातिथिपूजनम्

॥४२॥

पितरः पितामहाश्चैव तथैव प्रपितामहाः ।

त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः

॥४३॥

पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः ।

तस्मात्सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान्

॥४४॥

धर्मं समाचरन्नित्यं पापांशेन न लिप्यते ।

श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत्

॥४५॥

इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः ।

पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ

॥४६॥

विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा ।

उद्धरेदात्मनात्मानमात्मानमवसादयेत्

॥४७॥

पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः ।

एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत्

॥४८॥

आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते ।

पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च

॥४९॥

तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् ।

गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा

॥५०॥

संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन ।

पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः

॥५१॥

अस्माहके तदाप्नोति नर्मदायां न संशयः ।

तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह

॥५२॥

इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा ।

सागराः सरितश्चैव पर्वताश्च बलाहकाः

॥५३॥

तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः ।

स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप

॥५४॥

कलौ न दृश्या भवति प्रधानं यद्गयाशिरः ।

वैशाखे मासि सम्प्राप्तेऽमावास्यां नृपोत्तम

॥५५॥

व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला ।

तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते

॥५६॥

तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् ।

पितॄणामक्षया तृप्तिर्जायते शतवार्षिकी

॥५७॥

अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः ।

करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम्

॥५८॥

तस्य पुण्यफलं यत्स्यात्तच्छृणुष्व नराधिप ।

अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम्

॥५९॥

तत्फलं समवाप्नोति यथा मे शङ्करोऽब्रवीत् ।

रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः

॥६०॥

पिता पितामहाद्याश्च पितृके मातृके तथा ।

पिण्डोदकेन चैकेन तर्पणेन विशेषतः

॥६१॥

क्रीडन्ति पितृलोकस्था यावदाभूतसम्प्लवम् ।

ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः

॥६२॥

पिण्डेनैकेन मुच्यन्ते तेऽपि तत्र न संशयः ।

अस्माहके शिला दिव्या तिष्ठते गजसन्निभा

॥६३॥

ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी ।

उपर्यस्या यथान्यायं पितॄनुद्दिश्य भारत

॥६४॥

दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः ।

भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि

॥६५॥

श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु ।

दक्षिणा विविधा देया पितॄनुद्दिश्य भारत

॥६६॥

यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु ।

तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः

॥६७॥

अस्माहके महाराज पितरश्च पितामहाः ।

वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम्

॥६८॥

अत्र तीर्थे सुतोऽभ्येत्य स्नात्वा तोयं प्रदास्यति ।

श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम्

॥६९॥

स्नाने कृते तु ये केचिज्जायन्ते वस्त्रविप्लुषः ।

प्रीणयेन्नरकस्थांस्तु तैः पितॄन्नात्र संशयः

॥७०॥

केशोदबिन्दवस्तस्य ये चान्ये लेपभाजिनः ।

तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः

॥७१॥

तत्र तीर्थे तु ये केचिच्छ्राद्धं कृत्वा विधानतः ।

नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम्

॥७२॥

वनस्पतिगते सोमे यदा सोमदिनं भवेत् ।

अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः

॥७३॥

अक्षयं तत्र वै सर्वं जायते नात्र संशयः ।

नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम्

॥७४॥

तस्मिंस्तीर्थे त्वमावास्यां पितॄनुद्दिश्य भारत ।

नीलं सर्वाङ्गसम्पूर्णं योऽभिषिच्य समुत्सृजेत्

॥७५॥

तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः ।

अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते

॥७६॥

तव शुश्रूषणात्सर्वं तत्प्रवक्ष्यामि भारत ।

रौरवादिषु ये किंचित्पच्यन्ते तस्य पूर्वजाः

॥७७॥

वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् ।

लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः

॥७८॥

पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते ।

यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च

॥७९॥

स पिङ्गो वृष इत्याहुः पितॄणां प्रीतिवर्धनः ।

पारावतसवर्णश्च ललाटे तिलको भवेत्

॥८०॥

तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् ।

सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छखुरेषु च

॥८१॥

खुरपिङ्गं तमित्याहुः पितॄणां सद्गतिप्रदम् ।

नीलं सर्वशरीरेण स्वारक्तनयनं दृढम्

॥८२॥

तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः ।

यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते

॥८३॥

न वाहयेद्गृहे जातं वत्सकं तु कदाचन ।

तेनैव च वृषोत्सर्गे पितॄणामनृणो भवेत्

॥८४॥

जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् ।

पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि

॥८५॥

यथायथा हि पिबति पीत्वा धूनाति मस्तकम् ।

पिबन्पितॄन् प्रीणयति नरकादुद्धरेद्धुनन्

॥८६॥

यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः ।

नरकादुद्धरन्त्याशु पतितान् गोत्रिणस्तथा

॥८७॥

गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् ।

खुरेभ्यो या मृदुद्भूता तया संप्रीणयेदृषीन्

॥८८॥

पिबन्पितॄन् प्रीणयते खादनोल्लेखने सुरान् ।

गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज

॥८९॥

भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा ।

गृहीतोऽस्माहकं गच्छेत्सर्वेषामाधिनाशनम्

॥९०॥

स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् ।

मस्तके बाहुमूले वा नाभ्यां वा गलकेऽपि वा

॥९१॥

गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् ।

ततः समुच्चरन्मन्त्रं गायत्र्या वाथ वैष्णवम्

॥९२॥

नारायणं शरण्येशं सर्वदेवनमस्कृतम् ।

नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमोऽस्तु ते

॥९३॥

नमो नमस्ते देवेश पद्मगर्भ सनातन ।

दामोदर जयानन्त रक्ष मां शरणागतम्

॥९४॥

त्वं कर्ता त्वं च हर्ता च जगत्यस्मिंश्चराचरे ।

त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च

॥९५॥

प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय ।

त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे

॥९६॥

इति स्तुतो मया देव प्रसादं कुरु मेऽच्युत ।

मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम्

॥९७॥

एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।

पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत्

॥९८॥

वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।

पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः

॥९९॥

एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।

पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत्

॥१००॥

वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।

एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत्

॥१०१॥

यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् ।

तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा ।

शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि

॥१०२॥

तत्र तीर्थे नरो यावत्स्नापयेद्विधिपूर्वकम् ।

क्षीरेण मधुना वापि दध्ना वा शीतवारिणा

॥१०३॥

तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ।

अयने विषुवे चैव युगादौ सूर्यसंक्रमे

॥१०४॥

पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् ।

सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम्

॥१०५॥

तत्र तीर्थे तु यो राजन् सूर्यग्रहणमाचरेत् ।

सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते

॥१०६॥

तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति ।

सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम्

॥१०७॥

इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः ।

ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुरीश्वरम्

॥१०८॥

सर्वरोगोपशमनं सर्वपातकनाशनम् ।

यस्तु संवत्सरं पूर्णममावास्यां तु भावितः

॥१०९॥

पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप ।

त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा

॥११०॥

यत्पुण्यं श्राद्धकर्तॄणां तदिहैव भवेद्ध्रुवम् ।

तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः

॥१११॥

मन्वादौ च युगादौ च व्यतीपाते दिनक्षये ।

यो दद्यात्पितृमातृभ्यः सोऽश्वमेधफलं लभेत्

॥११२॥

अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् ।

ब्रह्माणं शङ्करं भक्त्या कुर्याज्जागरणक्रियाम्

॥११३॥

सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् ।

तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम्

॥११४॥

विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः ।

सपुत्रेण च तेनैव पितॄणां विहिता गतिः

॥११५॥

एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।

सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः

॥११६॥

एतत्ते कथितं राजन्महापातकनाशनम् ।

अस्माहकस्य माहात्म्यं किमन्यत्परिपृच्छसि

॥११७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥