मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१४

3
अवन्तीखण्डः · रेवाखण्डः · 214

श्रीकपालतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् ।

श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते

॥१॥

कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् ।

पिशाचैर्राक्षसैर्भूतैर्डाकिनीयोगिनीवृतः

॥२॥

भैरवं रूपमास्थाय प्रेतासनपरिग्रहः ।

त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः

॥३॥

आषाढी तु कृता तत्र ह्याषाढीनाम विश्रुतम् ।

कन्था मुक्ता ततोऽन्यत्र देवेन परमेष्ठिना

॥४॥

तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते ।

तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत्

॥५॥

देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया ।

विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु

॥६॥

यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् ।

बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम्

॥७॥

एवमुक्तोऽथ देवेन स वणिग्लोभमोहितः ।

योजयामास बलका लिङ्गे चोत्तममध्यमान्

॥८॥

तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः ।

स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत्

॥९॥

कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः ।

उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम्

॥१०॥

न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे ।

ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम्

॥११॥

वणिगुवाच

अधन्यः कृतपुण्योऽहं निग्राह्यः परमेश्वर ।

तव प्रियमकुर्वाणः शोचिष्ये शाश्वतीः समाः

॥१२॥

एतच्छ्रुत्वा वचस्तस्य वणिक्पुत्रस्य भारत ।

असंक्षयं धनं दत्त्वा स्थितस्तत्र महेश्वरः

॥१३॥

तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् ।

प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया

॥१४॥

देवेन रचितं पार्थ क्रीडया सुप्रतिष्ठितम् ।

देवमार्गमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ।

पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते

॥१५॥

देवमार्गे तु यो गत्वा पूजयेद्बलाकेश्वरम् ।

पञ्चायतनमासाद्य रुद्रलोकं स गच्छति

॥१६॥

देवमार्गे मृतानां तु नराणां भावितात्मनाम् ।

न भवेत्पुनरावृत्ती रुद्रलोकात्कदाचन

॥१७॥

देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम ।

मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा

॥१८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीकपालतीर्थमाहात्म्यवर्णनं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥