मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२७

3
अवन्तीखण्डः · रेवाखण्डः · 227

तीर्थयात्रादिविधानविशेषकथनम्

मार्कण्डेय उवाच

एतानि तव संक्षेपात्प्राधान्यात्कथितानि च ।

न शक्तो विस्तराद्वक्तुं संख्यां तीर्थेषु पाण्डव

॥१॥

एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।

नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा

॥२॥

मनसा संस्मरेद्यस्तु नर्मदां सततं नृप ।

चान्द्रायणशतस्याशु लभते फलमुत्तमम्

॥३॥

अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः ।

पतन्ति नरके घोरे प्राहैवं परमेश्वरः

॥४॥

नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।

तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी

॥५॥

इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा ।

प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर

॥६॥

जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती ।

इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः

॥७॥

यथा हि पुरुषे देवस्त्रैमूर्तत्वमुपाश्रितः ।

ब्रह्मविष्णुमहेशाख्यं न भेदस्तत्र वै यथा ।

तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः

॥८॥

कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत ।

तथा सहस्रशो रेवातीरद्वयगतानि तु

॥९॥

वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च ।

कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः

॥१०॥

स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् ।

सप्तजन्मकृतं नश्येत्पापं रेवावगाहनात्

॥११॥

देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः ।

वेदा अधीताश्चत्वारो येन रेवावगाहिता

॥१२॥

प्राधान्याच्चापि संक्षेपात्तीर्थान्युक्तानि ते मया ।

न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया

॥१३॥

युधिष्ठिर उवाच

विधानं च यमांश्चैव नियमांश्च वदस्व मे ।

प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे

॥१४॥

श्रीमार्कण्डेय उवाच

साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् ।

शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते

॥१५॥

अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् ।

अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव

॥१६॥

दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः ।

परोपकरणं कायादसारात्सारमुद्धरेत्

॥१७॥

अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।

मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता

॥१८॥

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः

॥१९॥

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।

यादृशी भावना यस्य सिद्धिर्भवति तादृशी

॥२०॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह

॥२१॥

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्

॥२२॥

सन्तीह विविधोपाया नृणां देहविशोधनाः ।

तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम्

॥२३॥

कृच्छ्रचान्द्रायणाद्यैर्वा द्वितीयं तीर्थसेवया ।

यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप ।

तदा देवाश्च पितरस्तं व्रजन्त्यनु खेचराः

॥२४॥

परमा मोदपूर्णास्ते प्रयान्त्यस्यानुयायिनः ।

कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम्

॥२५॥

इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् ।

व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि

॥२६॥

एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् ।

वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम्

॥२७॥

वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम ।

साधुवेषं समास्थाय विनयेन विभूषितः

॥२८॥

दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते ।

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्

॥२९॥

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः

॥३०॥

आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।

मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः

॥३१॥

वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।

स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम्

॥३२॥

विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः ।

प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः

॥३३॥

तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः ।

एकाशनं ब्रह्मचर्यमक्षारलवणाशनम्

॥३४॥

स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् ।

वर्जयेत्पतितालापं बहुभाषणमेव च

॥३५॥

परीवादं परान्नं च नीचसङ्गं विवर्जयेत् ।

व्रजेच्च निरुपानत्को वसानो वाससी शुचिः

॥३६॥

संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् ।

तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम्

॥३७॥

दुष्कर्मतो विमुक्तः स्यादनुतापी भवेद्यदि ।

वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ

॥३८॥

यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।

उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि

॥३९॥

अर्थवादभवां शङ्कां विहाय भरतर्षभ ।

कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम्

॥४०॥

कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये ।

ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत्

॥४१॥

तच्छृणुष्व महाराज नर्मदायां यथोचितम् ।

चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः

॥४२॥

चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् ।

अत ऊर्ध्वं योजनेषु पादकृच्छ्रमुदाहृतः

॥४३॥

तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया ।

योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः

॥४४॥

प्रणवाख्ये महाराज तथा रेवोरिसंगमे ।

भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम्

॥४५॥

सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम ।

द्विगुणं पादहीनं स्यात्करजासंगमे तथा

॥४६॥

एरण्डीसङ्गमे तद्वत्कपिलायाश्च संगमे ।

केचित्त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे

॥४७॥

ओंकारे च महाराज तदपि स्यात्समञ्जसम् ।

सङ्गमेषु तथान्यासां नदीनां रेवया सह

॥४८॥

प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर ।

त्रिगुणं कृच्छ्रमाप्नोति रेवासागरसङ्गमे

॥४९॥

कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर ।

योजने योजने गत्वा चतुर्विंशतियोजनम् ।

तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम

॥५०॥

रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् ।

दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते

॥५१॥

इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् ।

रेवायात्राविधानं च गुह्यमेतद्युधिष्ठिर

॥५२॥

युधिष्ठिर उवाच

योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम ।

यज्ज्ञात्वा निश्चितं मे स्यान्मनःशुद्धेस्तु कारणम्

॥५३॥

मार्कण्डेय उवाच

शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् ।

तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम्

॥५४॥

तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः ।

प्रमाणमङ्गुलस्याहुर्वितस्तिर्द्वादशांगुला

॥५५॥

वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् ।

स एव दण्डो गदितो विशेषज्ञैर्युधिष्ठिर

॥५६॥

धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं च योजनम् ।

एतद्योजनमानं ते कथितं भरतर्षभ

॥५७॥

येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् ।

उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम

॥५८॥

यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च ।

तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते

॥५९॥

यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप ।

तत्राप्युपोषणात्कृच्छ्रफलं प्राप्नोत्यथाधिकम्

॥६०॥

दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः ।

तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च

॥६१॥

प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः ।

तीर्थे मुख्यफलं स्नानाद्द्वितीयं चाप्युपोषणात्

॥६२॥

तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः ।

चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम्

॥६३॥

पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः ।

तीरस्थो योजनादर्वाग्दशांशं लभते फलम्

॥६४॥

उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा

॥६५॥

उपवासेन सहितं महानद्यां हि मज्जनम् ।

अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम्

॥६६॥

षड्योजनवहा कुल्य नद्योऽल्पा द्वादशैव च ।

चतुर्विंशतिगा नद्यो महानद्यस्ततोऽधिकाः

॥६७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥