मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४७

3
अवन्तीखण्डः · रेवाखण्डः · 47

गीर्वाणस्वर्गमनवर्णनम्

श्रीमार्कण्डेय उवाच

गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः ।

गजैर्गिरिवराकारैर्हयैश्चैव गजोपमैः

॥१॥

स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ।

कच्छपैर्महिषैश्चान्यैर्मकरैश्च तथापरे

॥२॥

ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः ।

दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः

॥३॥

देवा ऊचुः

जय देव जगद्वन्द्य जय संसृतिकारक ।

पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः

॥४॥

सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ।

मेघगम्भीरया वाचा देवराजमुवाच ह

॥५॥

किमत्रागमनं देवाः सर्वेषां वै विवर्णता ।

केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम्

॥६॥

देवा ऊचुः

अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव ।

तेन देवगणाः सर्वे धनरत्नैर्वियोजिताः

॥७॥

हत्वा देवगणांस्तावदसिचक्रपरद्द्विश्वधैः ।

गृहीत्वा शक्रभार्यां स दानवोऽपि गतो बलात्

॥८॥

देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।

चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह

॥९॥

अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् ।

स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित्

॥१०॥

एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् ।

ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः ।

तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माद्याश्चक्रपाणिनम्

॥११॥

देवा ऊचुः

जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः ।

असुरक्षय देवेश वयं ते शरणं गताः

॥१२॥

स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः ।

सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह

॥१३॥

श्रीवासुदेव उवाच

स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।

किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः

॥१४॥

किं दुःखं कश्च संतापः कुतो वा भयमागतम् ।

कथयन्तु महाभागाः कारणं यन्मनोगतम्

॥१५॥

पराभवः कृतो येन सोऽद्य यातु यमालयम् ।

एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत्

॥१६॥

दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः ।

हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो

॥१७॥

पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः ।

तथेति चोक्तः कमलासनेन सुरासुरैर्वन्दितपादपद्मः

॥१८॥

शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः ।

उत्थितो भोगपर्यङ्काद्देवानां पुरतस्तदा

॥१९॥

श्रीवासुदेव उवाच

पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति ।

तं हनिष्याम्यहं पापं येन संतापिताः सुराः

॥२०॥

स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः ।

विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः

॥२१॥

स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥