मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८२

3
अवन्तीखण्डः · रेवाखण्डः · 182

भृगुकच्छतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो भृगुः श्रिया चैव समेतः कच्छपं गतः ।

अभिनन्द्य यथान्यायमुवाच वचनं शुभम्

॥१॥

त्वया धृता धरा सर्वा तथा लोकाश्चराचराः ।

तथैव पुण्यभावत्वात्स्थितस्तत्र महामते

॥२॥

चातुर्विद्यस्य संस्थानं करोमि रमया सह ।

यदि त्वं मन्यसे देव तदादेशय मां विभो

॥३॥

कूर्म उवाच

एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् ।

भविष्यति महत्कालं ममोपरि सुसंस्थितम्

॥४॥

अचलं सुस्थिरं तात न भीः कार्या सुलोचने ।

एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम्

॥५॥

हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः ।

अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः

॥६॥

नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ ।

शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले

॥७॥

रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि ।

प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम्

॥८॥

क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् ।

अचिरेणैव कालेन तपोबलसमन्वितः ।

विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः

॥९॥

ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः ।

वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु

॥१०॥

एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् ।

निर्मितं भृगुणा तात सर्वपातकनाशनम् ।

इति भृगुकच्छोत्पत्तिः

॥११॥

मार्कण्डेय उवाच

ततः कालेन महता कस्मिंश्चित्कारणान्तरे ।

देवलोकं जगामाशु लक्ष्मीरृषिसमागमे

॥१२॥

समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने ।

पालयस्व यथार्थं वै स्थानकं मम सुव्रत

॥१३॥

देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता ।

आजगाम रमा देवी भृगुकच्छं त्वरान्विता

॥१४॥

प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् ।

भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत

॥१५॥

एव विवादः सुमहान्संजातश्च नरेश्वर ।

ममेति मम चैवेति परस्परसमागमे

॥१६॥

ततः कालेन महता भृगुणा परमर्षिणा ।

चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम्

॥१७॥

अस्मदीयं यथा सर्वं नगरं मृगलोचने ।

चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि

॥१८॥

श्रीरुवाच

प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः ।

मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः

॥१९॥

ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् ।

द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम्

॥२०॥

अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् ।

अष्टादशसहस्रेषु भृगुकोपभयान्नृप ।

उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम्

॥२१॥

एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् ।

क्रोधेन महताविष्टा शशाप द्विजपुंगवान्

॥२२॥

श्रीदेव्युवाच

यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः ।

मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम्

॥२३॥

त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् ।

न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः

॥२४॥

गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः ।

पक्षपातेन वो धर्मो न च निःश्रेयभावतः

॥२५॥

इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः ।

न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति

॥२६॥

अद्यप्रभृति सर्वेषामहङ्कारो द्विजन्मनाम् ।

न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि

॥२७॥

अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः ।

इति शप्त्वा रमादेवी तदैव च दिवं ययौ

॥२८॥

ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयोऽमलाः ।

क्रोधलोभमिदं स्थानं तेऽपि चोक्त्वा दिवं ययुः

॥२९॥

गतां दृष्ट्वा ततो देवीमृषींश्चैव तपोधनान् ।

भृगुश्च परमेष्ठी स विषादमगमत्परम् ।

प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम्

॥३०॥

तपसा महता पार्थ ततस्तुष्टो महेश्वरः ।

उवाच वचनं काले हर्षयन् भृगुसत्तमम्

॥३१॥

किं विषण्णोऽसि विप्रेन्द्र किं वा सन्तापकारणम् ।

मयि प्रसन्नेऽपि तव ह्येतत्कथय मेऽनघ

॥३२॥

भृगुरुवाच

शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता ।

अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः

॥३३॥

ईश्वर उवाच

पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा ।

क्रोधस्थानमसंदेहं तथान्यदपि तच्छृणु

॥३४॥

तत्र स्थानसमुद्भूता महद्भयविवर्जिताः ।

ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः

॥३५॥

वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः ।

येऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह

॥३६॥

अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च ।

उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम

॥३७॥

कोटितीर्थमिदं स्थानं सर्वपापप्रणाशनम् ।

अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः

॥३८॥

मत्प्रसादाद्देवगणैः सेवितं च भविष्यति ।

भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः

॥३९॥

वासस्तेषां शिवे लोके मत्प्रसादाद्भविष्यति ।

वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम्

॥४०॥

सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ।

भृगुतीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः

॥४१॥

तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः ।

दधिक्षीरेण तोयेन घृतेन मधुना सह

॥४२॥

ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे ।

मत्प्रसादाद्द्विजश्रेष्ठ सर्वदेवानुसेवितम्

॥४३॥

भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् ।

मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम्

॥४४॥

दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम ।

अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले

॥४५॥

अहं चैव वसिष्यामि अम्बिका च मम प्रिया ।

सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी

॥४६॥

वसिष्यामि तया देव्या सहितो भृगुकच्छके ।

एवमुक्त्वा स्थितो देवो भृगुकच्छेऽम्बिका तथा

॥४७॥

भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् ।

ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम्

॥४८॥

तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः ।

स याति शिवसायुज्यमित्येवं शङ्करोऽब्रवीत्

॥४९॥

तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् ।

दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम्

॥५०॥

गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ ।

न दुःखं दुर्भगत्वं च वियोगं पतिना सह

॥५१॥

प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च ।

यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन

॥५२॥

आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह ।

यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम

॥५३॥

सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् ।

दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम्

॥५४॥

समाः सहस्राणि तु सप्त वै जले म्रियेल्लभेद्द्वादशवह्निमध्ये ।

त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा

॥५५॥

आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि ।

शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि पर्वण्याजमीढस्सदैव

॥५६॥

संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः ।

स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम्

॥५७॥

एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन भाषितम् ।

प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः

॥५८॥

तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः ।

स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह

॥५९॥

भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव ।

संक्षेपेण महाराज सर्वपामप्रणाशनी

॥६०॥

एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् ।

चतुर्युगसहस्रेण पितामहदिनं स्मृतम्

॥६१॥

प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः ।

न पश्यामि त्विदं क्षेत्रमिति रुद्रः स्वयं जगौ

॥६२॥

यः शृणोति त्विदं भक्त्या नारी वा पुरुषोऽपि वा ।

स याति परमं लोकमिति रुद्रः स्वयं जगौ

॥६३॥

देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् ।

यां करोति नृपश्रेष्ठ तामक्षयफलां विदुः

॥६४॥

य इमं शृणुयाद्भक्त्या भृगुकच्छस्य विस्तरम् ।

कोटितीर्थफलं तस्य भवेद्वै नात्र संशयः

॥६५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥